५१६ सिद्धान्तशिरोमणौ गोलाध्याये अक्षाभां तरणिं दिशो युगगतं मासं तिथिं वासरं यः कूपोद्धृतवन्न वेत्ति सहसा पृष्टो दिगर्कादिकम् । ब्रूहीत्याशु परैः कथं स कथयत्यस्योत्तरं वक्ति यो वन्दे तच्चरणावमुष्य गणकाः के वा न सेवापराः ।। ४९ ।। अपि च - क्रान्तिज्यया त्रिज्यकयोन्नतासुक्रमोत्क्रमज्ये क्रमशो विभक्ते । तद्वगंयोगो युतिसंज्ञकः स्याद्युत्या हतायाश्चतुरूनयुत्याः ॥ पदेन नेत्रोनयुतिर्युतोना पृथक् तदर्थात् पदमकंनिघ्नम् । द्विषाक्षभा स्यादपमोन्नतासुज्ञानाद्दिनेशे समवृत्तयाते ॥ अत्र श्रीम० देवसतीर्थ्येन विनायकशास्त्रिणोक्ता उन्नतकालसंबन्धेनाक्षक्षेत्रजयावत्प्रश्नानां भङ्गाः - उन्नतज्यान्त्ययोवंगंयोरन्तराद् भाजितादुन्न तव्यस्तजीवान्त्ययोः । वर्गयुत्या पदं त्रिज्यकासङ्गणं क्रान्तिजीवा भवेत् स्पष्टमेवं विदाम् ।। तद्धृत्युन्नतकालज्यावर्गान्तरपदाद्धतात् । त्रिजीवयोन्नतव्यस्तज्ययाप्तमपमज्यका ॥ क्रान्तिज्यकाघ्न्युन्नत जोत्क्रमज्या त्रिज्योन्नतज्याभिहतिश्च या स्यात् । तद्वर्गंयोर्योगपदं विभाज्यं त्रिभज्यया तत् खलु तद्धृतिः स्यात् ॥ द्वीन्द्वक्षभावधहृतात् पलकर्णं वर्गाद्यच्चोन्नतासुविपरीतगुणात् त्रिमौर्व्या | लब्धं तयोः कृतिवियोगपदं यदेतद्भक्तः समुन्नतगुणोऽपम मौर्विका स्यात् || द्यज्योन्नतज्याभिहतेदं लाद्यत् क्रान्तिज्यया लब्धमथोन्नतस्य । या ज्या तयोर्वंर्गंयुतेः पदेन त्रिज्याकृतेराप्तमतो धनुर्यत् ॥ क्रान्तिज्ययात्रिज्यकयेतियुत्याः पदाधंभक्तात्त्रिगुणाद्धनुर्वा । पृथग्धनुः खाष्टकुशोधितं च दलीकृतं स्युद्विविधाः पलांशाः ।। दृग्ज्योन्नतव्यस्तगुणाहतेद्दलं त्रिभज्याविहृतं किलाद्यः । परस्तु युक्तः समशङ्कवर्गस्त्रिज्याविनिघ्नोन्नतकोटिमौर्व्या ॥ 'आद्यस्य वर्गात् परसंयुताद्यत् पदं तदाद्योनितमस्य चापम् । खनन्दसंशोधितमग्रका स्यात् तथाग्रकातः समशङ्करेवम् ॥ त्रिभज्याकृतेरुन्नतव्युत्क्रमज्याकृतेरर्धमत्रापहाय त्रिमौर्व्या । स्वनिघ्न्या भजेत् तत् कुजीवाघ्नमाद्योऽन्तरं वर्गयोरुन्नतज्याकुमौर्योः ॥ परः स्यादतश्चाद्यवर्गेण युक्तात् पदं यत् तदाद्येन विश्लेषितं सत् । कुजीवोनिता तद्धृतिः स्यात् ततोऽपि क्षितिज्यां बुधः साधयेदेवमेव ।। उन्नताधंज्यका वर्गिता स्वाहतत्रिज्यया सा पृथक् सगुणा योजिता । भाज्यहारौ क्रमात् स्तः फलाद्यत् पदं तत् प्रकल्प्यापमज्यां बुधोऽवेत्य च ||
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५८
दिखावट