पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नः-- भाद्रयस्य भुजयोः समाशयोर्व्यस्तकर्णहतयोर्यदन्तरम् ऐक्यमन्यककुभोः पलप्रभा जायते श्रुतिवियोगभाजितम् ॥ ४८ । । प्रश्नाध्यायः ग्रहस्य विषुवांशानां भुजांशानां च संयुतिः । नवतियंत्र तत्राशु क्षेत्रांशान् वद कोविद || अस्य भङ्गः-- परापमव्यस्तमौर्व्यास्त्रिज्यकाघ्न्याः पदं तु यत् । सा क्रान्तिज्या ततः साध्या भुजांशा विषुवांशकाः ॥ बापूदेवोक्तः प्रश्नः--- सहस्ररश्मौ समवृत्तयाते यः क्रान्तिवेत्तोन्नतकालमानम् । विज्ञाय विज्ञः पलभामवैति कस्तत्समोऽन्यो गणकोऽस्ति भूमौ ॥ अस्य भङ्गश्च -- स्यादुन्नतः काल इहेष्टसंज्ञस्तस्य ज्यका धुज्यकया विनिघ्नी | त्रिज्योद्घृता तद्धृतिमत्र लब्धं प्रकल्प्य तस्याः पलभा चरं च ॥ युज्या चरोनेष्टगुणेन निघ्नी त्रिज्योद्धृता तद्धृतिखण्डमूर्ध्वम् । ततोऽक्षभा तद्धृतिखण्डमूर्ध्वं ततोऽक्षभा स्यादसकृच्च तस्मात् || अथ सकृत्प्रकारः -- इष्टक्रमज्योत्क्रममौर्विके वा त्रिज्यापमज्यानिहते क्रमेण । कायें तयोवगंयुतियुंगाब्धिहिमांशुवर्गेण हताद्यसंज्ञा ॥ या क्रान्तिजीवेष्टदलज्यकाघ्नी द्विघ्नी च या च धुगुणेन निघ्नी ।. इष्टज्यका तत्कृतिसंयुतिद्विक्ष्माभृद्विनिघ्नी परसंज्ञिका स्यात् ॥ त्रिज्यापमज्यावधवगंभक्तो तो चाद्यहीनात् परवर्गतो यत् । मूलं तदूनाढ्यपरायुगेन्द्रहींनात् पदं स्याद् द्विविधा पलाभा ॥ यद्वा -- ५१५ इष्टोत्क्रमज्याक्रममौर्विके वा त्रिज्यापमज्याविहृते क्रमेण । तद्वर्गंयोगः प्रथमाभिधः स्याद्रूपद्वयोन प्रथमस्य वर्गात् ।। चतुर्मिरूनात् पदमत्र यत् स्यात् तेनोनयुक्तात् प्रथमाद्विशैलैः । निघ्नाद्युगेन्द्रै रहितात् पदं स्यादक्षप्रभा लाघवतो द्विधा वा ॥ अथवा - प्रथमेन हृतैर्वैदैरूनाद्रूपात् पदेन होनयुतम् । द्विष्ठं रूपं क्रमशस्तन्मूले किल वियोगयोगपदे ।। अनयोरेकेन हता अपरेण पदेन भाजिता अर्का: । द्विविधा वा पलभा स्यात् सममण्डलमागते तपने ॥ उभयत्रात्र प्रथमश्चेत् स्याद्वेदैः समस्तदा पलभा । अमितैकविधैव स्यादित्यतिरोहितं सुधियाम् ॥