पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ता एकानयनेन चानयति यो मन्ये तमन्यं भुवि ज्योतिर्विद्वदनारविन्दमुकुलप्रोल्लासने भास्करम्' || ४६ । दृष्ट्वेष्टभां योऽत्र दिगर्कवेदी छायाद्वयं वा प्रविलोक्य दिग्ज्ञः । वेच्यक्षभामुद्धतदैववेदिदुर्दर्प सर्पप्रशमे स तार्क्ष्यः ॥ ४७ । ज्ञाते त्वग्रादिखण्डे तु बुधैस्त्रिज्याचरज्यके | व्यत्यस्य तु प्रकारेऽस्मिन् साध्यमग्राग्रखण्डकम् ॥ समशकूर्ध्वखण्डेन तुल्यं सूत्रं प्रकल्पयेत् । तच्चरज्याह तित्रिज्यावर्गयुक्ताद्यसंज्ञकः ॥ समशङ्कवँखण्डस्य वर्गेण निहता युतिः । चरज्यासूत्रयोरन्यो भवेदाद्यान्ययोवंधात् ॥ त्रिभज्यावर्गविहृताद् घनमूलं तु यद् भवेत् । तत् सूत्रं मुहुरेवं स्यादासाम्यं तत् स्फुटं भवेत् ॥ प्रकारेष्वेषु सर्वत्र मिथः सूत्रचरज्यके | समशङ्क्वग्रके चैवं कुज्याकुज्योनतद्धृती ॥ उन्मण्डलनराग्रादिखण्डे व्यत्यस्य कल्पयेत् । तथैव समशङ्कूदलाग्राग्रदले ततः ॥ यत्र सूत्रं द्वितीयं स्याद्बुधो विज्ञाय तद् द्वयम् । प्रकारैरिह पूर्वोक्तैरन्यान् प्रश्नान् प्रसाधयेत् ॥ वेदेन्द्राः पलभावगंभक्तास्तद्ध्नचरज्यका । सूत्रं स्यात् फलभक्तं तच्चरज्या स्यादतोऽपमः ॥ १. प्रश्न: -- ज्ञाताक्षांश: क्रान्तिवेत्ता च धीमान् वेधाज्ज्ञात्वा दिग्लवान् वा नतांशान् । ब्रूते तूर्णं यो नतं कालमत्र त्रिस्कन्धं स ज्यौतिषं वेत्ति सम्यक् ।। अत्र बापूदेवोक्तो विधी-- ५१३ पलप्रभाव्यासदलेननिघ्नीत्यादिप्रकारागतभानुहग्ज्या | दिगंश कोटिज्यकया विनिघ्नी द्यज्याहृता स्यान्नतकालमौर्वी ॥ एवंकृते ये पलभागका स्युरित्यादिना चेत् द्विविधा नतांशाः । तेभ्यस्तदा प्रोक्तवदेव साध्या द्वेधा सुधीभिर्नतकालजीवा ॥ अभीष्टशकून दिनाधंशङ्कोत्रिज्याकृतिघ्नाद् द्युगुणेन भक्तात् । लम्बज्यकाप्तोत्क्रमचापलिप्ता नतासवः स्युदिवसाधिपस्य || यद्वा -- छायातस्तरणेः कृता नतलवा ये ये च मध्याह्नजा- स्तद्योगान्तर खण्डबाहुगुणयोर्घातो द्यूजीवाहृतः । लम्बज्याविहृतश्च तत्पदमथो त्रिज्याविनिघ्नं भवेत् तीक्ष्णांशोनंतकालखण्डज्रगुण: स्यात् कालबोधस्ततः ॥ अत्र श्रीचन्द्रदेवोक्तो विशेष:- नतांशेभ्यो नतं साध्यं बुधेनाद्यान्त्ययामयोः | दिग्लवेभ्यस्तथा मध्ये तन्नतं स्यान्निरन्तरम् ॥ २. अत्र संशोधकः । इह पूर्वं ग्रहगणिते त्रिप्रश्नाधिकारे क्रान्तिज्या कर्णवधादित्यादिपद्यद्वयस्य टिप्पणे द्वाद- शवर्गंभुजवर्गयोः प्रत्येकं लघुतोऽधिकत्वे सौम्यभुजवगंस्य लघुवेदेन्द्रान्तरतोऽधिकत्वे च रुद्राङ्गु- लोऽस्त्युदग्बाहुरित्याद्युदाहृत्य द्विविधं पलभामानं प्रदर्शितम् परमत्रार्कवगंभुजवर्गयोः प्रत्येकं लघुतोऽधिकत्वे सौम्यभुजवर्गस्य लघुवेदेन्द्रान्तरतोऽल्पत्वेऽपि द्विविधैव पलमा भवति । सि० - ६५