५१२ सिद्धान्तशिरोमणी गोलाध्याये याम्योदक्समकोणभाः किल कृताः पूर्वे पृथक्साधनै- र्यास्तद्दिग्विवरान्तरान्तरगता याः प्रच्छकेच्छावशात् । प्रश्न: -- नतांशानतकालं च सममण्डलगे रवौ । वीक्ष्य वक्त्यक्षभां क्रान्ति यस्तद्बुद्धि किमु स्तुमः || अस्य भङ्गः- द्वादशसमशङ्कवधानतकालगुणेन सङगुणाद्भक्तात् । सूत्रनतांशज्यकयोवंधेन फलमक्षकर्णः स्यात् ॥ प्रश्न: -- समवृत्तगते सूर्ये समयौ तन्नतोन्नतौ । वीक्ष्यापमं तथाक्षाभां वक्ति यः स च गोलवित् ॥ अस्य भङ्गः-- चरज्यकाघ्न्या नतकोटिमौर्व्या हृता त्रिभज्याकृतिरेकयुक्ता । तन्मूलभक्ता त्रिभमौर्विका स्यात् क्रान्तिज्यकात: सुलभा पलाभा || अत्र श्रीम० देवसतीथ्र्ये॑न विनायकशास्त्रिणोक्ताश्चरनतकालयोः सम्बन्धेनाक्षक्षेत्र- जयावत् प्रश्नानां भङ्गाः--- चरज्याद्युज्यकाघातस्त्रिज्याकुज्याहृतिप्रमः सुव्यक्तत्वात् त्रिभज्याया द्वे विज्ञायान्यदानयेत् ॥ । अग्राकोटिज्यका त्रिज्याचरज्याभ्यां हता पृथक् । चरकोटिज्यकामक्ता द्यज्याकुज्ये क्रमेण ते ॥ सूत्रोद्धृतश्चरगुणोऽस्य पदं रविघ्नमक्षप्रभा भवति सूत्रहता चरज्या | तन्मूलमर्कनिहतं त्रिगुणोद्घृतं तत् साध्यः प्रकल्प्य पलमां तु पलोऽपमः सः || चरज्यार्धनिघ्नी नतांशज्यकायाः कृतिस्त्रिज्यकावगंभक्ताद्यसंज्ञः | ● स्वनिघ्नाद्ययुक्तात् समाख्यस्य शङ्कोः कृतिस्तत्पदं हीनमाद्येन सूत्रम् || घातात्तु तद्वृत्तिचरज्यकयोश्चरांशकोटिज्यया विहृतमधितयाप्तसंज्ञम् । तत्त्रिज्ययोः कृतियुतेः पदमाप्तहीनमग्रांशकोटिजगुणोऽथ ततोऽपम: स्यात् ॥ कुज्योनतद्धृतिदलेन हतश्वरज्यावर्गस्त्रिराशिगुणवर्गहृतः फलाख्यः | कृत्योर्युतेः फलचरज्यकयोस्तु मूलं लब्धेन तद्विरहितं क्षितिमौविका स्यात् ।। उद्वृत्तशङ्कविहृता त्रिभमौर्विका या या स्याच्चरासुगुणहृच्चरकोटिजीवा | उद्वृत्तशङ्कुदलसङ गुणितं तदीयवर्गान्तरं प्रथमसंज्ञकमत्र कल्प्यम् || तत्त्रिज्ययोः कृतिवियोगपदं भवेद्यत् तेनान्वितोऽथ वियुतः प्रथमो द्विधायम् । शकुवेदिह रवौ समवृत्तयाते क्रान्तिज्यकाथ पलमा च ततः प्रसिध्येत् ॥ कृत्योर्वृतिश्चरगुणत्रिगुणोद्भवा या साग्राग्रखण्डदलसङ्गुणिताद्यसंज्ञः । अग्राग्रखण्डचरमौर्विकयोर्भवेद्यद्वर्गान्तरं त्रिगुणवर्गहतं पराख्यः || तौ भाजितौ स्वहतया चरजीवया स्तो वर्गीकृतात् प्रथमतः परसंयुताद्यत् । मूलं विवर्जितमिदं प्रथमेन सिध्येदग्रादिखण्डममुत: सुलभा पलाभा ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५४
दिखावट