पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० सिद्धान्तशिरोमणी गोलाध्याये क्रान्तिज्यासमशङ्कुतद्वृतियुतिं कुज्योनितां वीक्ष्य यो विंशत्यश्वरसैः ६७२० भितामथ परां षष्टयङ्कचन्द्रैः १९६० मिताम् । कुज्याग्रापम शिञ्जिनीयुतिमिनं वेन्यक्षमां चापि तं ज्योतिर्वि त्कमलाव बोधनविधौ वन्दे परं भास्करम्' ।। ४३ । क्रान्तिज्यासमशङ्कततियुतिं कुज्योनितां वीक्ष्य यः पूर्णाब्ध्यब्धिमहीमिता १४४० मथ परां खाम्राष्टभू १८०० संमिताम् । अग्राज्यापमशतद्धतियुतिं वेच्यक्षभाकौं च तं ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम् ॥ ४४ । लघुवर्गान्महन्निध्नाद् घनमूलं तु यद्भवेत् । ऊर्ध्वाधः क्षेत्रजे प्रश्ने लघोः कोटिः श्रवोऽन्यथा ।। लघुनिघ्नान्महद्वर्ग द्धन मूलं महद्भुजः । ऊर्ध्वव्यापकजे प्रश्ने कोटिस्तन्महतो भवेत् ॥ केवलं नामभेदात्तु दो: कोटयोर्याभिधा भवेत् । तन्मात्रेण न दोषोऽत्र देयो मतिमतां वरैः ॥ अधोदोरूर्ध्वकोट्योस्तु साधयेदन्यदेकतः । अन्यतो लम्बदो: कोटघन्यतरत् तदसंयुतम् ॥ ज्ञात्वा तेनान्वितं पूर्व प्रकल्प्य व्यापक श्रुतिम् । साधितं योजयेद्योज्ये पुनः कर्णं प्रकल्प्य तत् ॥ एवं पुनः पुनः साध्यमासाम्यं साधयेद्बुधः । एवमूर्ध्वाधर श्रुत्योः साधयेल्लम्बमन्यजम् ॥ अन्यतो लम्ब दो: काटघन्यतरत् तदसंयुतम् । ज्ञात्वा तेनोनितं पूर्वं कोटि बाहुं स्वलम्बजम् || प्रकल्प्य साधितेनोनं वियोज्यं तु पुनस्तथा । प्रकल्प्य कल्प्यमासाम्यमसकृत् साध्यमानयेत् || ऊर्ध्वाधो लम्बयोरेकं प्रकल्प्यान्यत् तदानयेत् । ज्ञात्वा व्यापकजं कर्णं घनमूलं त्रिकाहतेः ॥ व्यापकक्षेत्रजो लम्बस्ततः पूर्वप्रकारतः | संसाध्य साध्यमासाम्यमेवं साध्यो मुहुः स्फुटः ॥ प्रश्नाः षडेवमसकृद्विधिमालम्ब्य साधिता: । अन्ये सकृद्विधानेन पलभा सुलभा ततः ॥ १. बापूदेवोक्तः प्रश्न:- अग्रकासमनृतधृतियोगः खाम्बराम्बरहया : ७००० किल यत्र । व्योमसागरगजा ८४० स्त्वपमज्या ब्रूहि तत्र पलभा गणितज्ञ ॥ अस्य भङ्गः - अग्रासमनरतद्धृतियोगः क्रान्तिज्यया युतो द्विघ्नः । तेन हृता योगकृतिस्तद्धृतिरस्या: पलप्रभा ज्ञेया ॥ अत्र श्रीम० देवसतीर्थ्येन विनायकशास्त्रिणोक्ता अक्षक्षेत्रोत्थानां कतिपययोगज प्रश्नानां भङ्गाः - भुजकोटियुति लम्बं ज्ञास्वा तद्वर्गयोगतः । पदं लम्बोनितं कर्णस्तद्वर्गद्विगुणात् त्यजेत् || युतिवर्गं ततो मूलेनोनयुक्ता युतिः पृथक् । तदर्द्धं भुजकोटी स्तो कर्णे ज्ञातेऽप्ययं विधिः ॥ विज्ञाय कोटिभुजयोलंम्बश्रुत्यो संयुतम् । तयोर्गान्तरपदं लम्बोऽतः श्रुतिमानयेत् ॥