पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०९ प्रश्नाध्यायः यत्र क्षितिज्या शरसिद्ध २४५ तुल्या स्यात् तद्द्धृतिस्त चकुरामसंख्या ३१२५ । तत्राक्षभाक गणक प्रचदेव चेदक्षजक्षेत्रविचक्षणोऽसि ' ॥ ४२ । अन्यस्य वर्गेण युताद्यदाद्यान्मूलं तदन्यान्वितमक्षकर्णः । ततोऽक्षमाया अपि चापमस्य ज्ञानं द्रुतं स्याद्गणकाग्रणीनाम् ॥ अत्रोक्तवत् करणेन जात आद्यः ४७ । ४८ । ४३ । अन्यः ५ । ५६ । ४३ पलकणंः १५ | ३ | १८ पलमा ९ । ५ । ३९ क्रान्तिरंशाद्या २१ | १४ | ३६ । १. अत्र बापूदेवोक्तः प्रश्न:- वियदभ्ररमिता ६०० पमज्या खनवाङ्गाब्जमिता १६९० च तद्धृतिः स्यात् । वदं तत्र पलप्रभां सुबुद्धे यदि गोले गणिते च तेऽस्ति बोधः || अस्य भङ्गः - क्रान्तिज्यका विहृततद्धृतिराद्यसंज्ञा तद्वगंतोऽब्धिरहितात् पदमन्यसंज्ञम् | आद्यान्ययो रस ६ समाहतयोवियोगो योगश्च तत्र पलभा भवति द्विधैव ॥ यत्र त्वपममौर्वीतस्तद्धृतिद्विगुणा भवेत् । अत्र षड्घ्नाद्यतुल्या स्यादेकधैव पलप्रभा | अत्र श्रीम० देवसतीर्थ्येन विनायकशास्त्रि णोक्ता अक्षक्षेत्रजयावत् प्रश्नानां भङ्गाः— सिद्धान्तगोलयोर्वेद्यान्यक्षक्षेत्राणि सप्त ये । तत्र क्षेत्रत्रयं कल्प्यं प्रत्येकं तु षडङ्गकम् ॥ व्यापकक्षेत्रमाद्यं तदूर्ध्वाध: क्षेत्रसंयुतम् । एवं क्षेत्रत्रयं ज्ञेयं यतोऽयं प्रश्नसंग्रहः ॥ तदङ्गानि भुजः कोटिः कर्णो लम्बोऽथ तद्भवे । भुजकोटी ततो द्वे द्वे विज्ञायान्यानि साधयेत् ॥ ज्ञातद्वन्द्वानि चैकैकक्षेत्रे पञ्चदशामुतः | भङ्क्तुं प्रश्नास्तु नवधा स्फुट: पाटीविदां विधिः ॥ तत्कृत्योरितिपद्येन षट्सु शेषेसु वक्ष्यते । कर्णो लम्बजदो: कोटघन्यतरच्च द्वयं यदि ॥ ज्ञातं तदितरज्ज्ञेयं द्वयोरन्तरतः स्फुटम् | वधालम्बजदो: कोटघोर्मूलं लम्बो भवेदिति ॥ अनुपातवशात् सिद्धं शेषेषु त्रिषु वक्ष्यते । श्रुतेर्लंम्बजदोः कोटयन्यतरस्यान्तर दो: कोटयन्यतरत् स्वघ्नं वधस्तस्मात् स्फुटो विधिः । परम् ॥ घातस्येत्यादिना वक्ष्यतेऽपरः ॥ चतुर्गुणस्य दलितो लम्बजः कोटिः पराख्योऽस्मात् कृतीकृतात् । भुजवर्गयुतान्मूलं परोनं लम्बजो भुजः ॥ व्यत्ययाद् भुजकोटयोस्तु पर : प्रश्नोऽपि सिध्यति । वधो लम्बजदो: कोट्योर्लम्बवर्गो युतिः श्रुतिः ॥ विधिश्चतुर्गुणस्येति स्पष्टो वा वक्ष्यतेऽपरः । कर्णार्धलम्बयोवँर्गान्तरान्मूलेन हीनयुक् ॥ कर्णस्याधं द्विधैवं स्यात् कोटिर्दोर्वात्र लम्बजः । एवं पञ्चदशप्रश्नेष्वन्येषां साधनं स्फुटम् || क्षेत्रयोरेवमेकैकं विज्ञायान्ये प्रकल्पिता: । त्रयस्त्रिशदिह प्रश्नास्ते त्रिष्वेकोनितं शतम् ॥ प्रश्नानां नवतिस्तत्र प्रकारैः पूर्वकल्पितैः । सिध्यत्यथो नवानां तु वक्ष्ये विधिचतुष्टयम् || लम्बज: कोटिरूर्ध्वंस्थो लम्बजो दोरधःस्थितः । व्यापकस्था श्रुतिस्तत्र द्वयं ज्ञात्वा विधिस्त्वयम् ॥