पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ सिद्धान्तशिरोमणौ गोलाध्याये केनाप्युज्जयिनीगतेन तरणेः क्रान्ति तदा वेत्सि चे - न्मन्ये त्वां निशितं सगर्वगणकोन्मत्तेभकुम्भाङ्कुशम् ।। ४० । मार्तण्डे सममण्डलं प्रविशतिच्छाया किलाष्टचङ्गुला दृष्टाष्टासु घटीषु कुत्रचिदपि स्थाने कदाचिद्दिने । अर्कक्रान्तिगुणं तदा वदसि चेदक्ष प्रभां तत्र च त्रिप्रश्नप्रचुरप्रपञ्चचतुरं मन्ये त्वदन्यं नहि ॥ ४१ । त्रिभज्यकार्काभिहते हंराप्तं क्रान्तिज्यकां गाणितिकोऽवगच्छेत् । ज्ञात्वाक्षभागांश्च समुन्नतासून् दृष्ट्वा प्रविष्टं सममण्डलेऽकंम् ॥ द्वीन्दूनक्षप्रभास्थाने द्वीन्दुस्थाने तदाक्षभाम् । प्रकल्प्यापक्रमज्यात्र साधिता सैव लभ्यते ॥ यद्वा - अक्षप्रभार्काहतिताडिताया: समुन्नतासूत्क्रममौर्विकायाः । कृत्याक्षकर्णस्य विभाजिताया: फलस्य चापं नवतेविंशोध्यम् || शेषज्ययाक्षश्रुतिवर्गनिघ्न्याहृतार्केनिघ्न्युन्नतकालजीवा । त्रिज्याक्षभाघातहता सकृत् स्यात् क्रान्तिज्यकार्के सममण्डलस्थे ॥ अथवा- इह प्रसाध्योन्नतकालखण्डेत्यनेन साध्य: प्रथमं किलाद्यः । तत्कोटिजीवा पलकर्णनिघ्न्युन्नतासुमौर्व्या विहृता समाभा ॥ किश्व -- त्रिज्यानिघ्नादक्षकस्य वर्गाद्वेदेन्द्रघ्नी मुन्नतासूत्क्रमज्याम् । त्यक्त्वा शेषादुन्नतासुज्यकाक्षश्रुत्याहत्याप्तं समाख्यप्रभा वा ॥ तस्याः समनरः साध्यस्तस्मादक्षभया हतात् । पलकर्णेन लब्धस्य चापं क्रान्तिर्भवेत् सकृत् ॥ अपिच - द्विघ्नी त्रिभज्या नयनाहतानामक्षांशकानां भुजजीवयाप्ता ! या योन्नतासूत्क्रम मौर्विका च त्रिजीवया संविहृता तयोर्यत् ॥ वर्गान्तरान्मूलमनेन भक्तोन्नतासुजीवापममौविका स्यात् । समुन्नतास्वक्षलवावबोधादृष्ट प्रविष्टं समवृत्तम ॥ उक्तवत् करणेन लब्धा क्रान्तिर्भागाद्या १० । १४ । १२ । १. अत्र बापूदेवोक्तो विधि:- अत्रोन्नतासूत्क्रममौर्विकाघ्नस्त्रिज्याहृतो द्वादशवर्ग आद्यः । समप्रभार्धेन हतोन्नतासुज्यका त्रिभज्याविहृतान्यसंज्ञः ॥