पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यासः पञ्चाङ्गुला गणक यत्र पलप्रभा स्यात् तत्रोष्टमा नवमिता दशनाडिकासु । दृष्टा यदा वद तदा तरणिं तवास्ति यद्यत्र कौशलमलं गणिते सगोले’ ||३८| दिनकरे करिवैरिदलस्थिते नरसमा नरभाषरदिङ्मुखी । भवति यत्र पटो पुटभेदने कथय तान्त्रिक तत्र पलप्रभाम् ।। ३९ । मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे काले पञ्चघटीमिते दिनगते' यद्वा नते तावति । ५०७ १. अत्र बापूदेव: - द्विविधापमभागानामाचार्योक्तप्रकारतः | नात्र सिद्धिरतो ब्रूते नवं संशोधको विधिम् ॥ इह प्रसाध्योन्नतकालखण्डज्यकामथैतां गुणयेद् द्विभूभिः । ततोऽक्षकर्णेन हृतात् फलस्य चापं द्विकेनाहतमाद्यसंज्ञम् || त्रिराशिजीवोन्नतकालमौय समाहतेर्द्वादशभिर्हतायाः । आद्यस्य मौर्व्या पलकर्णनिघ्न्या लब्धस्य चापं परसंज्ञकं स्यात् || अर्कत्रिजी वाहतिराद्यकोटिज्यया विनिघ्नी विहृताद्यमौर्व्या । ततो भयाप्तस्य भवेद्धनुर्यद्योगान्तरे तत्परयोविंदध्यात् ।। आद्यस्य खाङ्कलवतोऽभ्यधिकाल्पकत्वे योगोऽन्तरं क्रमत उत्तरदिग्लवाः स्युः । शुद्धे परेऽत्र धनुषोऽनुदगाशकास्ते तेभ्यस्त्वपक्रमलवावगमोऽस्ति शीघ्रम् || खाङ्केभ्य आद्यस्य किलाल्पकत्वे पूर्वोक्तयोगं गगनेभभूभ्यः । विशोधयेच्छेषमितान् दिगंशान् यमाशकान् गाणितिकोऽवगच्छेत् ॥ तेभ्यः पुनः क्रान्तिलवाः प्रसाध्यास्तत् क्रान्तिमानं द्विविधं क्वचित् सत् । क्वचिद् भवेदेकविधं च साधु क्वचिच्च मानद्वयमप्यसत् स्यात् || पञ्चाङ्गुलेल्या द्युदाहरणेऽनेन विधिना सिद्ध आद्योंऽशादिः ५४ ५८ | २२ । परः ७७ । २८ । ४९ आभ्यां जाता उत्तरा दिगंशा: ८ | १९ । २६ खाङ्केभ्य आद्यस्येत्यादिना जाता याम्याः ३३ | २१ । ४८ तत इष्टच्छायाहतेत्यादिना सिद्धा क्रान्तिद्विविधाप्युत्तरैव २२ । ४९ । २५ वा ० | १० | ४२ | इदं मानद्वयमपि साधु । प्रत्येकं मानस्य परम- क्रान्तितोऽल्पत्वात् । अत्रान्यदुदाहरणम्- पञ्चांशोनाष्टनाडीषु यदा विश्वाङ्गुलेष्टभा | वेदाङ्गुलाक्षभे देशे स्यात् तदार्कापमं वद ।। अत्राद्योंऽशादिः ४४ | १६ | २ | परः ८२ | १२ | २७ दिगंशाः सौम्याः १० | ५६ । १७ । खाङ्केभ्य आद्यस्येत्यादिना सिद्धा दिगंशा दक्षिणा: २६ । ३१ | २३ तत इष्ट- च्छायाहतेत्यादिना सिद्धा क्रान्तिरुत्तरांशाद्या २० | १७ | २२ दक्षिणा वा ५ | ३३ | २८ एते क्रान्ती प्रत्येकं परमक्रान्तितोऽल्पत्वात् सत्यौ । १. अत्र बापूदेवोक्तो विधि:- अक्षप्रभाकृतिहतोन्नतकाल कोटिज्या ढ्योऽर्कवर्गगुणितत्रिगुणो विभक्तः | अक्षप्रभाहतसमुन्नतकालमौर्व्या लब्धाक्षकर्णकृतियोगपदं हरः स्यात् ॥