५०६ सिद्धान्तशिरोमणी गोलाध्याये हृतोऽक्षकर्णेन फलस्य चापमाद्यस्त्रिभज्यागुणिताक्षमौर्व्याः । यदाद्यको टिज्यकया फलं तच्चापोनखाङ्काः परमापमांशः ॥ युतोनिता गोलवशात् स्वकीयत्रयीतनोस्तत् परसंज्ञकं स्यात् । तज्ज्यार्कनिघ्नी त्रिभमौविकाप्ता हताद्यकोटिज्यकयाद्यमौर्या ॥ भक्ता फलं तत् पलमां प्रकल्प्य येऽक्षांशकास्तेस्युरभीष्टसंज्ञा: । तेऽन्यङ्कनन्दाग्निगृहे निजाकंपदक्रमाद्युग्वियुगाढ्यहीनाः ॥ धनर्णताया विपरीतता स्यात् सिध्येत् परो यत्र विलोमशुध्या | तथायनांशे रहिता तनुः स्यात् स्फुटं किलेदं सुधियावगम्यम् ॥ बापूदेवोक्तः प्रश्न:- विद्ध्वैकस्मिन् यः कपाले द्विवारं ज्ञातक्रान्तेर्भास्करस्योन्नतांशान् । ज्ञात्वा वेधानेहसोरन्तरं च वेत्त्यक्षांशान् स प्रवीणोऽस्ति गोले ॥ अस्य भङ्गः- वेधकालान्तरार्धंस्य शिञ्जनी धुज्यया हता | त्रिज्या भक्ताप्तचापं च द्विघ्नं स्यादाद्यसंज्ञकम् ॥ वेधकालान्तरस्य ज्या घुशिञ्जिन्या समाहता | भक्ताद्यजीवयाप्तस्य कार्मुकं स्यात् पराभिधम् || आद्यकोटिज्यकाघ्नेन लघुना शङ्कनोनितः । त्रिज्यानिघ्नो महान् शङ्कुस्तस्मात् त्रिज्यकया हतात् ॥ महत्या हग्ज्ययाद्यज्याघ्न्याप्तस्य धनुषा परः । गोलयोर्युग्वियुक् कार्यंस्तस्य दोर्ज्या घुजीवया ॥ महत्या नतमौर्व्या च गुणिताथ त्रिभज्यया । क्रान्तिज्यालघुशङ्कभ्यां हतयाढ्योनिता ततः ॥ त्रिज्यावर्गेण लब्धस्य चापं स्युः पलभागकाः । एवं ज्ञाता मादृक्षादप्यक्षावगमः स्फुटः ।। श्रीम० देवसतीर्थ्यविनायकशास्त्रिणा सङ्गृहीतोऽत्र विशेष:- उदग्गोले परेणोनाच्चापाच्च सति सम्भवे । स्युरत्रैवं द्विधाक्षांशा अन्वशिक्षं गुरोरिदम् ॥ तदुक्तं प्रकारान्तरान्तरं च - वेधकालान्तर स्वेष्टं तद्व्यस्तज्यापमज्यया | क्षुण्णा स्यात् प्रथमः शङ्क्वोर्योगान्तरवधाः क्रमात् ॥ द्वितीयाद्या | स्युरिष्टज्याविहृतः सर्व एव ते । प्रथमत्रिज्ययोवंगंयुतिः स्याद्धरसंज्ञकः || द्वितीय: प्रथमाभ्यस्त आद्यो द्विघ्नत्रिभज्यया । क्षुण्णा प्रथमतुर्याभिहतिः क्रान्तिज्यकाहृता ।। तृतीय त्रिज्यकाघातकृत्या युक्ता तयोनिता । द्युज्याकृतिः परस्तौ स्तो त्रिज्याकृतिहतौ तथा ॥ हारभक्तावथाद्यस्य वर्गेणाढ्यात् परात् पदम् । गोलयोराद्ययुक्तोनं भवेदक्षांशशिञ्जिनी ॥ सौम्यापमे परो व्यस्तशुद्धया चेदाद्यवर्गतः । परेणोनातू पदाढघोन आद्योऽक्षज्या द्विधा भवेत् ||
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४८
दिखावट