पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः नाक्षत्रा उत सावनास्तनुकृतौ नाड्योऽथ चेत् सावना नाक्षत्रा उदयाः कथं विसदृशास्ताभ्यो विशोध्या वद । नाक्षत्रा यदि तद्दुरात्रसदृशे काले गतेऽर्काधिकं किं लग्नं न समं ततो दिनकरस्तात्कालिकः किं कृतः ॥ ३७ । वा० वा० – अथ तात्कालिकार्ककरणप्रश्नमाह - आस्तामिति । लग्नं तात्का- लिकार्कात् साध्यते । तन्नाक्षत्रघटीभिरेव कर्त्तव्यमुदयानां नाक्षत्रत्वात् । सूर्य॑सावनमध्ये नाक्षत्रघटीषष्टिर्दंशपलयुता भवति । सूर्योदये सूर्यतुल्यमेव लग्नं भवति नाधिकम् । तत्र तात्कालिकार्काद्दशपलयुतघटीषष्ट्या साध्यमानं लग्नं तात्कालिकार्कादप्यधिकं स्यात् । किञ्चाष्टनवपलयुतयापि घटीषष्ट्यां साधितं लग्नं तात्कालिकार्कादधिकं स्यादित्यनिष्टम् । अत उक्तं । 'पलोनेऽपि' तद् धुरात्रे तात्कालिकार्काल्लग्नं किमधिक- मिति तस्मात्तात्कालिकार्ककरणमयुक्तमिति स्पष्टं व्युत्पादयति 'नाक्षत्रा उत सावना : ' इति । ५०५ ‘तद् द्युरात्रसदृशे काले' इत्यत्र दशपलयुतघटीषष्टिमिते काल इत्यर्थः। अस्यो- त्तरं प्रागभिहितम् । अत्र त्रिप्रश्नोदाहृतप्रश्ना लिखितास्तेषामुत्तराणि प्रागभिहि- तान्येव । तेषामुपपत्तिर्व्यक्ताव्यक्तप्रकारेण त्रिप्रश्नभाष्ये स्पष्टमभिहिता सैवात्र वेद्या || ३६-३७ । आकाशमध्यविषुवाख्यलवा : प्रकल्प्योंऽशाद्यो रविस्तदप मज्यकयार्कनिघ्न्या । तत्सूर्यगोलवशतो रहिताथ युक्ता कार्याक्षभाहतपरापमकोटिजीवा || ततोऽक्षश्रवसा लब्धं हकक्षेपो यमदिग्भवेत् । वियोगेऽत्र विलोमा चेच्छुद्धिर्ज्ञेयस्तदोत्तरः || ततो वित्रिभस्य श्रुति साधयित्वा तथा कल्पिताहपतेः कोटिजीवाम् । निहत्याक्षकर्णेन भक्त्वा यदाप्तं भवेद्धोमता तद्धनु: संविधेयम् || धनुषा तेन हीनाढ्यं भषट्कं कल्पिते रवौ । मृगकर्यादिषड्भस्थे क्रमात् स्यात् सायना तनूः ॥ एवं तदा यदा राशित्रितययुज्यया हतात् । दृक्क्षेपात् त्रिज्यया लब्धमल्पमक्षगुणाद् भवेत् || अन्यथा धनुषा तेन चक्रं हीनयुतं क्रमात् । कर्किनक्रादिषड्भस्थे कल्पितेऽकें भवेत् तनुः || श्रीम० देवोक्तोऽयमत्र विशेषः - स्फुटमेवमवाचीने दृक्क्षेपे विदुषामिदम् । विलोमशुद्ध्या सिद्धे तु सौम्ये व्यस्तमपि स्फुटम् ॥ एवं सति च केनापि यः पुरोमागिनेरितः । दोषस्तत्र स्फुटं मूलं गोलतत्त्वानभिज्ञता || श्रीम० देवोक्तो लग्नानयनप्रकारः - या सायनार्कस्य भुजज्यकेतिप्रकारतो ये विषुवाख्यभागा: । खमध्यजास्तान् रविमंशकाद्यं प्रकल्प्य तत्कोटिगुणोऽकंनिघ्नः ॥ सि० - ६४