पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये केवलखण्डद्वयात्मकभाज्यस्यापवर्त्तने गुणके कश्चन विशेषो नास्ति किन्तु लब्धि- रूपवर्त्तनसंगुणा कार्या । क्षेपहारयोरपवर्त्तेऽन्यथानुपपत्या भाज्यप्रथमखण्डेऽप्यपवर्त्तोऽपे- क्षित इति तद्गुणक एवापवर्त्तनपर्यवसानाद्यो गुणः सिद्धयति स एवापवर्त्तनसंगुण: कार्यं: अत उक्तं ‘‘ भवति कुट्टविधेरिति । क्षेपस्यानपवर्त्तनेऽपवर्त्तनपर्यवसानानाश्रित- त्वाद् येन छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतदुष्टमुद्दिष्टमेवेत्युक्तम् । कुट्टके यत्र भाज्य- भाजकयोः परस्परभक्तयोः शेषं रूपं स्यात्तत्रापवर्त्तनं नावश्यकम् । यत्र परस्परभकयो- र्भाज्यभाजकयोः शून्यशेषता तत्रापवर्त्तनमावश्यकमेव । शून्यक्षेपविशेषोऽयम् । ये । ४९८ षडष्टशतकाः क्रीत्वा समार्घेण दलानि विक्रीय च पुनः शेषमेकैकं पञ्चभिः प जाता: समपणास्तेषां कः क्रयो विक्रयश्च कः ॥ इत्युदाहरणे सर्वगुणांधिक इष्टविक्रयो दशाधिकशततुल्यः कल्पितः क्रयप्रमाण- मव्यक्तमेकं कल्पितम् । अस्मिन् क्रये षड्गुणिते विक्रयेण ११० हृते लब्धिप्रमाणं कालक: लब्धिगुणं हरं गुणगुणितभाज्यादपनीय शेषं पञ्चगुणं लब्धियुतं जाता आद्यस्य पणाः । या ३० का ५४९ । एवं द्वितीयतृतीययोरपि पणाः साध्यास्तत्र लब्धिरनुपातेन । यदि षण्णां कालकस्तदाष्टानां शतस्य किमिति जातास्तयोः पणाः । या १२० का २ २१९६ या १५०० का २७४५० प्रथमद्वितीययोः समच्छेदेन समीकरणे लब्धा यावत्ता- ३ ३ ३ वदुन्मितिः । का ५४९ या ३० रू ३ द्वितीयतृतीययोर्जाता का २५२५४ या १३८० अत्र षट्चत्वारिंशतापवर्त्ते लब्धा सैव यावत्तावदुन्मितिरेकैव । अन्त्यौन्मितौ कुदृविधेर्गुणाप्ती इति क्षेपाभावे गुणलब्धी जाते सक्षेपे का ५४९ ल० या 'इष्टाहतस्वस्वहरेण युक्ते' या ३० गु० का इत्येकगुणे क्षिप्ते जाते गुणलब्धी गुण: ३०, लब्धि: ५४९ यावत्तावन्मानम् । अत्र भाज्यभाजकयोस्त्रिभिरपवर्त्ते गुण: १० लब्धि: १८३ अपवत्तितलब्धिप्रमाणे क्रये सत्यालापो न घटत इत्यत आह - उद्दिष्टं कुट्टके तद्ज्ञैर्ज्ञेयं निरपवत्र्त्तनम् । व्यवहारः क्वचित् क्वापीदृशेस्थले । अत्राप्यपवर्त्तने उदाहरणासिद्धिरित्याह-खिलत्वापत्तिरन्यथेति केचित्तु । रक्षेपाभावोऽथवा यत्र क्षेपः शुद्धथेद्धरोद्धृतः । ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारहृतः फलम् इति सूत्रम् । मिथो' भजेत्तौ दृढ़भाज्यहारौ यावद्विभाज्ये भवतीह रूपमिति । १. ली० कु० ६ श्लो । २ ली० कु० ९ श्लो० । ३. ली० कु० ३ श्लो० ।