पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ४९७ एवं भाज्यशेषेण भाजके हृते रूपं शेषं न स्यात्तदा भाजकशेषेण भाज्यशेषं हरणीयम् । एवं क्रमेण यत्रैव रूपशेषं भाज्ये तस्माद्विलोमप्रकारेण लब्धिगुणी ज्ञेया- विति स्पष्टम् । अत एवोक्तं 'मिथो' भजेत्तौ दृढभाज्यहारौ यावद्विभाज्ये भवतीह रूपमिति' । यत्र भाज्ये रूपं शेषं तत्र क्षेपस्याधनता | ततः पूर्वभाज्ये क्षेपस्य धनतेत्यत उक्तं चेद्विषमास्तदानीं यथागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणादिति' । अत्र भाज्य- तुल्ये लब्धेरुपचये भाजकतुल्यो गुणोपचयस्तदपचये तदपचय इति प्रोक्तं 'स्वोर्ध्वो विभाज्येन दृढेन तष्टः फलं गुणः स्यादपरो हरेणेति' । इष्टाहतस्वस्वहरेण युक्ते' इति । ‘" गुणलब्ध्योः समं ग्राह्यमिति' च । अत्र भाज्यहारक्षेपानां धनत्वं प्रकल्प्य गुणाप्ती साध्ये । ते तत्क्षणाच्छुद्धे ऋण- क्षेपे भवतः । पुनस्तक्षणाच्छुद्धे ऋणक्षेपे च भवतः | भाजकस्य क्षयगतत्वेऽपि न तत्क्षणशोधनं किन्तु लब्धिः क्षयगतेति विशेषः । ‘मिथो भजेत्तौ भाज्यहारौ तावद्यावद्विभाज्ये रूपं भवतीति । यदा तु भाज्य- भाजकयोः परस्परभजने निःशेषता स्यात्तत्र रूपशेषत्वाभावाद् गुणलब्धिज्ञानमशक्यं स्यादित्यपवर्त्तनमावश्यकम् । अपवर्त्ताङ्कज्ञानेऽपीयमेव युक्ति: । भाज्ये भाजकभक्ते यच्छेषं तेन भाजको हतो निःशेष: स्यात्तदा भाज्यशेष मेवापवर्त्ताङ्कः । यतो भाज्य- भाजकयोरपवर्त्तं इति भाज्ये भाजकभक्ते या लब्धिस्तद्गुणभाजकतुल्यमेकं खण्डम् । शेषतुल्यमपरञ्च । तत्र भाजकस्य येनापवर्त्तस्तेन प्रथमखण्डस्य सुतरां स्यात् । तेन भाज्यशेषेण भाजको हार्यो यदि निःशेषा लब्धिस्तदा भाज्यशेष मेवापवर्त्तीङ्कः स्यात् । भाज्यशेषेण भाजके हृते निःशेषलब्धिर्न स्यात्तदा भाजकशेषेण भाज्यशेषे हृते यदि निःशेषलब्धिर्भवति तदा भाजकशेष मेवापवर्त्ताङ्क: स्यात् । अत्र भाज्यभाजकयोरपवर्त्त इति भाज्यस्य खण्डद्वयम् । एकं गुणकगुणभाज्य- तुल्यम् । द्वितीयं क्षेपतुल्यम् । गुणकगुणभाज्यस्यापवर्त्तेऽपवत्तितभाज्यस्य गुणकगुणने वा फलाविशेषाद्गुणकाज्ञानाच्च "भाज्यो हारः क्षेपकश्चापवर्त्यं' इत्युक्तम् । १. ली० कु० ३ श्लो० । २. ली० कु० ५ श्लो० । ३. ली० कु० ४ श्लो० । किन्तु मु० पु० 'ऊर्ध्वो विभाज्येन' 'स्यादधरो हरेण' इति पाठान्तरम् । ४. ली० कु० १० श्लो० । ५. ली० कु० ७ श्लो० । ६. ली० कु० १ श्लो० । सि० - ६३