पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये केवललब्धिभाजकघातात्मकं प्रथमखण्डं यावत् क्षेपतुल्यगुणकेन गुण्यते भाजकेन भज्यते तावत्केवलभाज्यजा लब्धिः क्षेपतुल्यगुणकगुणैव भवति भाजक तुल्यगुणहारनाशात् । कुट्टके भाज्यो गुणकगुणः क्षेपसंस्कृतो भाजकभक्तः शुद्धयेदिति केवलभाज्य- गुणकघातः क्षेपसंस्कृतो मुख्यभाज्य: स्यादस्यैव भाजकभक्तत्वात् । मुख्यभाज्यस्य खण्डत्रयम् । केवलभाज्ये भाजकभक्ते या लब्धिस्तद्गुणभाजक - गुणकघाततुल्यम् । केवलभाज्ये भाजकभक्ते यच्छेषं तद्गुणगुणकतुल्यं द्वितीयम् । क्षेपतुल्यं तृतीयम् । खण्डत्रयेऽपि हरो भाजक एव । अत्र द्वितीयतृतीयखण्डोत्थलब्धियोगस्य शेषोत्थलब्धिरिति नाम कृतम् । केवलभाज्यशेषे गुणकगुणे क्षेपसंस्कृते भाजकभक्त शेषलब्धि: स्यात् । केवलभाज्यलब्धि- र्गुणकगुणा प्रथमखण्डोत्थलब्धि: स्यात् । लब्ध्योर्योगो मुख्यभाज्यलब्धिः स्यात् । अत्र गुणकाज्ञानाल्लब्धिद्वयमपि ज्ञातुमशक्यम् । तत्र यदि केवलभाज्यशेषं रूपमितं स्यात्तदा क्षयगतक्षेपे क्षेपतुल्य एव गुणक: स्यात् । रूपमिते भाज्यशेषे शेषोत्थं लब्धिः शून्यमितैव । प्रथमखण्डोत्थलब्धिस्तु केवलभाज्यलब्धिगुणितक्षेपतुल्या । लब्धि- द्वययोगो मुख्यलब्धि: स्यादिति केवलभाज्यलब्धिस्तदधो निवेश्य: । 'क्षेपस्तथान्ते खमुपान्तिमेन स्वौर्ध्वं हतेऽन्त्येन युते तदन्त्यं त्यजेदिति' सम्यगुक्तम् । भाज्यशेषे तु भाज्यशेषं येन गुणं क्षेपसंस्कृतं भाजकभक्तं शुद्धयेत् सगुणकः लब्धिः शेषोत्थलब्धिरेव स्यात् । केवलभाज्यलब्धिगुणितभाजकतुल्येऽपि गुणस्त्वयमेव येन केनापि गुणितं शुद्धयेदेवेति नियमात् । एषु भाज्यहारक्षेपेषु यौ लब्धिगुणो तावेव विपरीतौ विपरीतभाज्यहारक्षेपेषु भवतः । ‘छेदं गुणं गुणं छेदमृणं स्वं स्वमृण- मिति' विलोमगणितेन । तत्र भाज्यशेषेण भाजके हते विपरीते क्षेपे च कृते पूर्वानीत- लब्धिगुणावत्र गुणलब्धी भवत इति सिद्धम् । यदि केवलभाज्ये भाजकभक्ते रूपमितं शेषं न स्यात् । स्याद्यदि भाज्यशेषेण भाजके भक्ते रूपं शेषं तदाऽत्रैव क्षेपतुल्ये त्वधनक्षेपे क्षेपमितो गुणक: स्यात् । शेषो- त्थलब्धिरत्र पूर्वन्यायेन शून्यमिव । भाज्यशेषेण भाजके भक्ते या लब्धिः सा क्षेपगुणा पूर्वखण्डलब्धिरत्र | शेषोत्थ- लब्धे: शून्यतया मुख्यलब्धिरियमेवात्र | भाजकतुल्ये भाज्ये भाज्यशेषतुल्ये भाजके या मुख्यलब्धिर्यश्च गुणकस्तावेव विपरीतौ भाज्यशेषोत्थतुल्ये भाज्ये भाजकतुल्य एव भाजके गुणकलब्धी भवतः । भाज्यशेषोत्थलब्धिरत्र क्षेपतुल्या | भाज्ये भाजकभक्ते या लब्धिः सा गुणकगुणा पूर्वखण्डोत्थलब्धि: स्यात् । इयं क्षेपयुत्ता मुख्यलब्धि: स्यात् । तस्माद्भाज्ये भाजकभक्ते या लब्धिः सा तदधो निवेश्या । तदध: क्षेपोऽन्त्ये खमिति निवेश्यम् । अस्य निवेशनविशेषस्य वल्लीति नाम स्थापितम् । ततः 'स्वोर्ध्वे' हतेऽन्त्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशि- युग्ममिति' प्रोक्तम् । १. ली० कु० ४ श्लो० । ४९६