सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ४९५ षट्क मितमृणक्षेपः । ननु कथमयं क्षेपः । अत्र भाज्यभाजकयोलंक्षत्रयेणापवर्तनं तत्तु नास्य क्षेप- स्येति खिलत्वापति | सत्यम् । अत उक्तमुद्दिष्टं कुट्टके तज्ज्ञैरित्यादि । अतो लक्षत्रयेणापवर्तने कृतेऽधिमासशेषं षड्दृष्टम् । अतः कुट्टकेन ज्ञातं कल्पगतं चतुभिरूनानि त्रयोविंशतिशतवर्षाणि २२९६ | तथा षण्मासा: ६ । षट तिथयश्च ६ || २३-२४ | वा० वा० - यस्मिन् कालेऽधिकमासशेषमीदृशं तस्मिन् काले कियत्कल्पगत- मिति यो वदति तस्योत्कर्षमाह - स्यादिति । वर्गप्रकृतिविषयमुदाहरणद्वयमत्रेत्यनेक- वर्णमध्यमाहरणेनानेयम् । अत्राधिमासशेषप्रमाणं यावत्तावत् । या १ अस्य कृतिदिघ्नी सरूपेति जातम् । या व १. रू १ अयं वर्ग इति कालकवर्गसमं कृत्वा पक्षयो रूपं प्रक्षिप्य काल- कवर्गस्य मूलं कालकः १ अपरपक्षस्यास्य या व १. रू १ वर्गप्रकृत्या मूलं ग्राह्यम् । तत्र कनिष्ठम् ६ ज्येष्ठं १९ कनिष्ठं प्रकृतिवर्णमानमिति यावत्तावन्मानमिद ६ मेवाधि- शेषम् । अत्र समासान्तरभावनाभ्यां पदानामानन्त्यम् । द्वितीयोदाहरणेऽधिशेषम् | या १ अस्य कृतिर्येकादशहृता या व १० रू १ मूलदेति कालकवर्गेण साम्ये समच्छेदीकृत्य छेदगमे शोधने च कृते जातौ पक्षौ या व १ का रू, का व १० रू १ प्रथमपक्षमूलं या १ । द्वितीयस्य वर्गप्रकृत्या तत्र कनिष्ठं ६ ज्येष्ठं १९ प्रथमपक्षतुर्ल्यामिति तदेव यावत्तावन्मानं १९ ततोऽधिमासशेषं शुद्धिः । कल्पाधिमासा भाज्यः कल्पसौरा हरः गुणो गतसौरा इति सुगमम् । • चतुस्त्रिगुणयो राश्योः संयुतिद्वियुता तयोः । राशिघातेन तुल्या स्यात्तौ राशी शीघ्रमानय | इत्युदाहरणं कलाशेषविकलाशेषयोश्चतुस्त्रिगुणयोः संयुतिद्वियुता यस्मिन् काले • कलाशेषविकलाशेषयोर्धाततुल्या स्यात्तत्र कल्पगतं वदेति भावितोदाहरणं योज्यम् । एवं सर्वाण्यप्युदाहरणानि श्रीधरार्यभट्टब्रह्मगुप्ताद्यैर्ग्रहगणित प्रश्नविषयाण्येव योजितानि । सिंहावलोकनेन कुट्टके विशेषमाह - उद्दिष्टमिति | भाज्यो यद्गुणकगुणः क्षेपयुतो भाजकः भक्तः शुद्धथेत्सगुणकोऽत्र या लब्धिः सा लब्धिरिति । अत्र गुणकज्ञानार्थ- मुपाय: । केवलभाज्ये भाजकभक्ते यदि रूपमितं शेषं स्यात्तदोद्दिष्टक्षेपतुल्ये त्वधनक्षेपे क्षेपतुल्य एव गुणको युक्तः । केवलभाज्ये भाजकभक्ते या लब्धिः सा गुणगुणिता सती गुणगुणितभाज्यजा स्यात् । केवलभाज्ये भाजकभक्ते यत्र रूपं शेषं तत्र भाज्यस्य खण्डद्वयम् । एकं केवलभाज्ये भाजकभक्ते या लब्धिस्तद्गुणितभाजकतुल्यम् । द्वितीयं रूपतुल्यम् । अत्र द्वितीयखण्डे रूपं क्षेपतुल्यगुणकगुणितं क्षेपतुल्यमेव स्यादत्राधनत्वात् । क्षेपे शोधिते शून्यमेव स्यादिति प्रथमखण्डोत्थलब्धिरेव लब्धि- र्भवति। ‘योगे खं क्षेपसममित्युक्तेः' । खण्डद्वयोत्थलब्धियोगस्य सम्पूर्णलब्धित्वात् । खण्डद्वयमध्ये यत्र कुत्रापि खण्डे क्षेपसंस्कारो विधेय इति द्वितीयखण्ड एव कृतः प्रथमखण्डस्य केवललब्धिभाजकघातात्मकत्वेन प्रथमखण्डं येन केनापि गुणितं भाजक- भक्तं शुद्धयेदेवेति क्षेपतुल्यो गुणको युक्त एव ।