पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये भगणशेषादहर्गंणानयनोपायमाह-दृढ़भगणा येन गुणा इति कल्पचन्द्रभगणा भाज्यः । कल्पकुदिनानि हरः भगणशेषं शुद्धिः । त्रयोऽपि खखाभ्रगगनप्राणर्तुभिरपव- तिताः । अत्र रूपं विशुद्धि प्रकल्प्य गुणः साधितः कृतगुणाष्टाङ्गादिवसुतुल्यो जातः । अपरो हरेण तष्ट इति विश्वाग्न्यङ्गशराङ्ककैश्च विभजेदित्युक्तम् । एतान्यपवतित- कुदिनान्येव । 'इष्टाहतस्वस्वहरेण युक्त ते वा भवेतां बहुधा गुणाप्ती इत्यनेन 'तावत्तत्र हरं क्षिपेदभिमते यावद् भवेद् वासरे' इत्युक्तम् ॥ १७ २१ । ४९४ अथ खिलोदाहरणम् | राशयः खं० लवाः पञ्च ५ कलाः षड्वर्ग ३६ संमिताः । विकला गोभुवो १९ नेदृङ्मध्येन्दुरुदये क्वचित् ।। २२ । वा० भा० - चं ० | ५ | ३६ | १९ । अतो राश्यादेविकला इत्यादिके कृते शेषं सप्तविंशतिः २७ । शेषोनहरो विकलाशेषमिदम् १२९५९७३ । अस्मिन् दृढक्वहाधिके ज्ञातः खिल: खेटः । ईदृशश्चन्द्रो मध्यम औदयिको न कदाचिद्भवतीत्यर्थः ॥ २२ । वा० वा०—खिलोदाहरणमाह-राशय इति । लङ्कासूर्योदयकालीनमध्यमग्रहा- देवाहर्गणानयनौचित्येन यस्मादेव मध्यमादहर्गणो नायाति तस्योदयकालीनत्वं न कदापि संभवतीति खिलोदाहृतेन्दुतुल्यो मध्येन्दुरुदये क्वचिदपि न भवतीत्युक्तम् ॥ २२ ॥ एवमनेकधा खिलत्वं कुट्टकविषयमभिधायेदानीं वर्गप्रकृतिविषयमाह - स्याद्यस्मिन्नधिमासशेषककृतिदिंग्घ्नी सरूपा कृति- व्येका शेषकृतिर्हता च दशभिः स्यान्मूलदा वा यदा । काले कल्पगतं तदा वदति यस्तत्पादपद्मं बुधाः सेवन्ते बहुधा प्रमेयवियति भ्रान्ता भ्रमन्तोऽलिवत् ॥ २३ । उद्दिष्टं कुट्टके तज्ज्ञैर्ज्ञेयं निरपवर्तनम् । व्यभिचारः क्वचित् क्वापि खिलत्वापत्तिरन्यथा ॥ २४ । वा० भा० – स्पष्टार्थम् । अस्य वर्गप्रकृत्या भङ्गः । तत्राधिमासशेषप्रमाणणं यावत्तावत् १ । अस्य कृतिदिग्घ्नो सरूपा जाता । याव १० रू १ | इष्टं ह्रस्वमित्यादिना जाते ह्रस्वज्येष्ठमूले ६ | १६ | वा २२८ । ७२१ । अत्र ह्रस्वं यावत्तावन्मानं तदेवाधिमासशेषम् ६ | वा २२८ । अय द्वितीयोदाहरणेऽधिमासशेषप्रमाणं यावत्तावत् १ । अस्य कृतिव्यँका दशहृता च जाता याव पेठ रूं । अस्य मूलप्रमाणं कालकः १ | अतः कालकवर्गसमीकरणे शोधने च कृते जातं प्रथमपक्षमूलम् । या १ । परपक्षस्यास्य काव १० रू १ । वर्गप्रकृत्या मूले जाते ते एव ६ । १९ । वा २२८ । ७२१ । अत्र कनिष्ठं कालकमानं ज्येष्ठं यावत्तावन्मानं तदेवाधिमासशेषम् । १९ वा ७२१ । अतः कल्पगतानयनं कुट्टकेन । तत्राधिमासा भाज्य: । रविदिनानि हारः । अधिमासशेषं १. लो० कु० १० श्लो० ।