पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ४९३ अथ विकलाशेषज्ञानमुच्यते । यदत्रावशेषं त्यक्तं तेनोनाइचक्रविकला न पूर्यन्ते तास्तत्र क्षिप्त्वा यदि भागो ह्रियते तदा लब्धिः सरूपा लभ्यते । अतस्तदेव विकलाशेषम् | विकलाशेषेण कुदिनेभ्यो न्यूनेन भवितव्यम् । एवं यज्ज्ञातं तत् किंचिदधिकमपि भवति । तदसत् | उद्दिष्टग्रहस्य खिलत्वात् ॥ १७ - २१ । वा० वा० -- राश्यादिग्रहाद्विकलावशेषं विकलावशेषादहर्गणसाधनं च विवक्षु- रेकवर्णबीजाद्ग्रहज्ञानार्थमुदाहरणमाह - लिप्तार्द्धमिति । अत्र कलाप्रमाणं यावत्तावत् । या १ लिप्ताद्धं दशयुग्भवन्ति विकला इति । विकलाया३ रु० २० कला विकलानां वियोगस्त्रियुग्भागाः या १ रु० १४ भागदलं गृहाणि या ४ रु० १४ राश्यंशकला विकलायोगः यारु०२ खत्रीन्दुतुल्य इति सम- शोधनेन लब्धं यावत्तावन्मानं ५८ उत्थापनेन जातो राश्यादिग्रहः |११|२२|२८|३१| राश्यादिग्रहादेव भगणशेषविकलाशेषज्ञानमाह - राश्यादेरिति । 'निरग्रचक्रादपि कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाप्रयोगादिति' यत्पूर्वं प्रतिज्ञातं तदिदमुक्तम् । 'द्युचरच- क्रहतो दिनसञ्चयः क्वहहृतो भगणादिफलं ग्रहः' इत्यनेन पूर्वं या लब्धिस्ते कल्पगत- भगणाः । शेषं तद् भगणशेषमिति प्रसिद्धम् । इदं राश्यानयनार्थं द्वादशभिर्गुणनीयम् । लवानयनार्थं चक्रांशेर्गुणनीयम् । कलानयनार्थं चक्रकलाभिर्गुणनीयम् । सर्वत्र क्वहैर्भाज्यम् । एवं विकलानयनार्थं भगणशेषं चक्रविकलाभिर्गुणनीयम् । क्वहैर्भाज्यं लब्धं राश्यादिग्रहविकलाः स्युः । शेषं विकलावशेषं स्यात् । अत्र विलोमगणितेन राश्यादिग्रहविकलाः क्वहगुणा विकलावशेषयुताश्चक्र- विकलिकाभक्ता भगणशेषमिति स्पष्टम् । प्रकृते विकला शेषाज्ञानाद्राश्यादिग्रहविकलासु दृढकुदिनगुणासु चक्रविकलिका- भक्तासु यल्लब्धं तद्रूपयुतं भगणशेषमिति कल्पितम् । तदा शेषोनहर एव विकलाशेष- मिति स्यात् । कथमन्यथा विकलाशेषक्षेपमन्तरेण चक्रविकलाभिर्भागे यल्लब्धं रूपयुतं सद्- भगणशेषं स्यात् । दृढकुदिनगुणभादिग्रहविकलाभ्यश्चक्रविकलाभिर्भागे यच्छेषं तच्च- क्रविकलाभ्यः शोध्यं शेषोनहरः स्यात् । तच्छेषशेषोनहरयोगस्य चक्रविकलिका तुल्य- त्वाद्रूपयुतं केवलब्धं भगणशेषमित्युक्तम् । ईदृशे राश्यादिग्रहे संभवति शेषोनहर- • तुल्यमपि विकलाशेषमिति भावः । भाज्यहारक्षेपाणां पुनरपवर्त्तनायोग्यत्वं दृढत्वम् । येन केनापि नापवर्त्तन्ते तत्क्षीयन्त इत्युक्तं बुद्धिविलासिन्याम् । प्रकृते कल्पकुदिनान्यपवर्त्तनीयानि सन्तीति दृढकुदिनानीत्युक्तम् । क्वहाधिके विकलाशेषे स खिल इत्युक्तम् । अत्र कल्पकुदिनानामपवत्तितत्वेन चक्रविकलाभ्यो न्यूनत्व संभवाद् विकलाशेषं क्वहाधिकमपि भवति । अखिले तु विकला- शेषाद् द्युपिण्डसाधनं 'कल्प्याथ शुद्धिविकलावशेषं षष्टिश्च भाज्य: कुदिनानि हारः' इत्यादिना सुगमम् । १. बी० कु० ३७ श्लो० ।