पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ सिद्धान्तशिरोमणौ गोलाध्याये राश्यादेविंकला दृढकुदिनगुणाश्चक्र विकलिकाभक्ताः । शेषत्यागे लब्धं रूपयुतं भगणशेषं स्यात् ।। १८ । शेषोनहरो विकलाशेषं तस्मिन् कहाधिके ज्ञेयः । स खिलः खेटस्त्वखिले विकलाशेषाद्' छुपिण्डो वा ।। १९ । दृढभगणा येन गुणाश्चक्राग्रोना दृढक्क हैः शुद्धाः । स युगणो दृढक्कुदिनयुतस्तावद्यावदीप्सितो वारः ।। २० । उदाहरणम्- चक्राग्रं शशिनः खखाभ्रगगनप्राणभूमिः १६५०००० हृतं शुध्येच्चेन्न खिलं फलं कृतगुणाष्टाङ्गाहिनागा ८८६८३४ हतम् । विश्वाग्न्यङ्गशराङ्ककै ९५६३१३ च विभजेत् स्याच्छेषमह्नां गण- स्तावत् तत्र हरं क्षिपेदभिमते यावद्भवेद्वारे || २१ । वा० भा० - लिप्ताधं दशयुगित्यत्र लिप्ताप्रमाणं यावत्तावत् १ प्रकल्प्योक्तविधि कृत्वाद्यबीज- क्रियया ज्ञातः शशी ११ । २२ । ५८ | ३९ । अस्य भगणानां कुदिनानां चापवर्त: १६५०००० । वृढभगणा: ३५००२। दृढवबहाः ९५६३१३ | जातोऽहर्गणः २५७१५१ | अयं जातः शनि- वासरे। द्विगुणे क्षेपे क्षिप्ते जातः सोमवासरे २१६६७७७ । षड्गुणे क्षिप्ते जात: शुक्रवासरे ५९९५०२९ । सहागुणे क्षिप्तेऽनेकधा सोमवासरे २१६९७७७ । वा ८८६३९६८ । वा १५५५८१५६ इत्यादि । अथवा शुक्रवासरे ५९९५०२६ । वा १२६८६२२० वा १९३८३४११ इत्यादि । एवमन्येषां ग्रहाणां स्थिरकट्टकः कार्य: । अत्र वासना । भगणशेषं चक्र विकलाभियंदि गुण्यते क्वविभज्यते तदा विकलात्मको ग्रहो लभ्यते । शेषं विकलाशेषं स्यात् । अतो विलोमविधिना भगणशेषानयनम् । राश्या- देविकलाः १२७ ७१६ | दृढकुदिने: ९५६३१३ गुणिताश्चक्रविकलाभिः १२९६००० भक्ताः । लब्धम् ९३७६५८ | शेषम् ३३१०४७ २ | शेषत्यागे लब्धं रूपयुतमतः कृतम् । यतो विकलाशेषं क्षिप्वा चक्रविकलिकाभिर्भाज्या: । तद्विकलावशेषमज्ञातम् । १. अत्र श्रीम० देवः -- चक्रविकलिकाः खेचर भगणैनिहता भवेद्भाज्य: । विकलाशेषं शुद्धिर्हार: कुदिनान्यतश्च लब्धिगुणौ ॥ सक्षेपौ ग्रहविकला गतभूदिवसा भवन्ति तौ क्रमशः । इष्टघ्नक्षेपयुतावेतौ स्यातामनेकधा चैवम् || २. अत्र बापूदेवः – अनेन शेषेण ३३१०४७ होनो हर : १२९६००० जातं विकलाशेषम् ९६४९५३ । अस्य दृढकुदिनेभ्य: ९५६३१३ अधिकत्वादयं चन्द्रः ११ । २२ । ५८ । ३९ खिलः ।