पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सि० - २ मध्यमाधिकारे कालमानाध्यायः ९ गण्यते सङ्ख्यायते तद् गणितं तत्प्रतिपादकत्वेन तत्संज्ञं शास्त्रमुच्यते । तत्र व्यक्तेन स्पष्टेनोच्चावचजनप्रसिद्धमार्गेण सङ्कलनादिना यदुच्यते तद्व्यक्तम् । यावत्ता- वदादिवर्ण कल्पनासापेक्षबुद्ध्या गणितमव्यक्तम् । ग्रहकर्मणा ग्रहगणितम् । गोलेन वेधादिना ग्रहकर्म सवासनं गण्यत इति गोलाश्रितत्वाद्गोलगणितम् । गणितचतुष्ट- यात्मको गणितस्कन्धः | कालविधानशास्त्रापरपर्यायं ग्रहगणितमेव गणितस्कन्धः । स चाध्येतव्यः । अत्र वासनावगतिपूर्वकोऽध्ययनविधिव्यापार' इति । एतद्गणितत्रयं ग्रहगणितवासनायामुपयुक्तम् । अतो गणितचतुष्टयात्मकत्वं गणितस्कन्धस्य व्यवहरन्ति स एव सिद्धान्त इति । तथा चाहु: । व्यक्ताव्यक्तभगोलवासनमयः सिद्धान्त आदिरिति । आचार्योऽपि 3 - - गणितस्कन्धसन्दर्भो दर्भगर्भाग्रधीमतः । उचितोऽनुचितो यन्मे धाष्टर्यं तत् क्षम्यतां विदः ॥ ७ इति सिद्धान्तं गणितस्कन्धत्वेन व्यावहरत् ( व्यवाहरत् ) ग्रहतिथिसारिण्यो यन्त्रादि सर्वंमत्रैवान्तर्भूतम् । अन्ये त्वेवमिच्छन्ति यत्र कल्पादेर्ग्रहानयनं स सिद्धान्तः । यत्र युगादेस्तत् तन्त्रम्। यत्र शकादेस्तत् करणमिति । अभियुक्तास्तु | सिद्धान्ततन्त्र- शब्दाभ्यां गणितस्कन्धतदेकदेशावभिधीयेते । होराशब्दो लग्नतदर्धयोरिवेत्याहुः । उभयथाप्यभियुक्तिप्रसिद्धिदर्शनात् । तन्त्रशब्देन ग्रहगणितस्कन्धं वराहो व्यावहरत् । ( व्यवाहरत् ? ) सांवत्सरसूत्रे तेनोक्तम् । तत्र ग्रहगणिते पौलिशरोमक- वशिष्ठ-सौयं- पैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्र - याम-मुहूर्त्त-नाडी-विनाडी- प्राणत्रुट्याद्यवयवाद्यस्य कालस्य क्षेत्रस्य च वेत्ता चतुर्णां च मासानां सौर - सावन- नाक्षत्र-चान्द्राणामधिमासकावमसंभवस्य च कारणाभिज्ञ इत्यादिना ग्रन्थसन्दर्भेण एतानि समस्तानि व्यस्तानि वा यत्र भवन्ति स सिद्धान्त इति लक्षणं युक्तम् । बुधै- रुदाहृत इत्यनेन यत्राभियुक्तानां सिद्धान्तत्वप्रसिद्धिः स सिद्धान्त इति द्योतितम् । १. सम्यग्ज्ञानपूर्वकत्वे सति अध्ययनानुकूल व्यापार इति । ३. आचार्यापि, ख पु० । ४. व्याव्यवहरत् ख ग पु० । ६. पूर्वग्रन्थ कर्तार इति । ७. वेत्याङ्गः कपू० । ९. श्रीपतिकृतसिद्धांन्तशेश्वरे सिद्धान्तलक्षणं यथा- २. चाङ्ग क० पु० । ५. कंतभूतं ख पु० । ८ तृद्यवय क ख ग पु० । शतानन्दध्व िप्रभृतित्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवहसंस्थानकथनम् । ग्रहेन्द्राणां चारा: सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धकुशलैः ॥ ( १ अ० ३ श्लो० ) अन्यच्च वटेश्वरसिद्धान्ते समयमितिरशेषा सावनं खेचराणां गणितमखिलमुक्तं यत्र कुट्टाद्युपेतम् | ग्रहभगणमहीनां संस्थितियंत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उक्तः’ ॥ ( मध्यमा० ५ श्लो० )