पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते मुनिकृतशास्त्रे तु येन यावान् विषयः पृष्टस्तं प्रति तावानेवोक्त इत्येकदेशेऽपि सिद्धान्त- पदप्रयोगो नैव दोषमावति । इदं यल्लक्षणं क्रियते तत्पौरुषसिद्धान्तानामित्य- विरुद्धम् ॥ ६ ॥ अध्येतव्यं ब्राह्मणैरेवेत्यध्ययनविधिविहितस्य सिद्धान्ताध्ययनस्य प्रवृत्यनुकूलां सिद्धान्तानभिज्ञनिन्दाद्वारेण ' सिद्धान्तज्ञप्रशंसामाह ( जानन्निति गर्जदिति ) ॥ ७-८ ॥ इवानों ज्योतिः शास्त्रस्य वेदाङ्गत्वं निरूप्य वेदाङ्गस्वादवश्यमध्येतव्यं तद्विजेरेव नान्येः शूद्राविभिरित्येतत्प्रतिपादनार्थं इलोकचतुष्टयमाह | वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात् ॥ ९॥ ‘शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं च कल्पः करौ । या तु शिक्षास्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ||१०|| ‘वेदचक्षुः किलेदं स्मृतं ज्यौतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चित्करः ॥ ११ ॥ 'तस्माद्विजैरध्ययनीयमेतत् पुण्यं रहस्यं परमं च तत्वम् । यो ज्यौतिषं वेत्ति नरः स सम्यग्धर्मार्थकामॉल्लभते यशश्च ॥ १२ ॥ वा० भा० स्पष्टम् ।। ९-१२ ॥ १. भिज्ञानि क० पु० पा० २. वृद्धवसिष्ठ सिद्धान्ते- छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिष लोचने च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि षड्वा ( १ अ० ७ श्लोक ) तथा च सिद्धान्द्रशेखरे छन्दः पादौ शब्दशास्त्रञ्च वक्त्रं कल्पः पाणी ज्यौतिषं चक्षुषः च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि षट् च ( १ अ० ५ श्लोक० ) ३. उक्तञ्चैतद्वृद्धवसिष्ठसिद्धान्ते- वेदस्यचक्षुः किल शास्त्रमेतत् प्रधानताङ्गेषु ततोऽर्थजाता । अङ्गैर्युतोऽन्यैः परिपूर्णमृत्तिश्चक्षुर्विहीनः पुरुषो न किञ्चित् - एवमेव सिद्धान्तशेखरे वेदस्य चक्षुः किल शास्त्रमेतत् प्रधानताऽङ्गेषु ततोऽस्य युक्ता । अङ्गैर्युतोऽन्यैः परिपूर्णमूर्तिश्चक्षुर्वि होनः पुरुषो न कश्चित् ' ( १ अ० ६ श्लोक ) ॥ ४. कथितञ्चैतद् वृद्धवसिष्ठसिद्धान्ते अध्येतव्यं ब्राह्मणैरेव तस्माज्ज्योतिः शास्त्रं पुण्यमेतद्रहस्यम् । एतद्बुध्वा सम्यगाप्नोति यस्मादर्थं धर्मं मोक्षमग्रथं यशश्च' (मध्या० १० श्लो० ) एवमेव सिद्धान्तशेखरेऽपि 'अध्येतव्यं ब्राह्मणरेव तस्मात् ...... ( १ अ० ७ इलो० ) ॥