पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये द्वितीयपक्षे तु पक्षद्वयस्थिताव्यक्ताङ्कान्तरतुल्यमव्यक्तं जातम् । एवं कृतेऽपि पक्षसाम्यं न गच्छत्येव । ततो द्वितीयपक्षस्थरूपतुल्यानि रूपाणि पक्षयोः शोधितानि । तत्र द्वितीयपक्षे रूपाभाव: सम्पन्न: । प्रथमपक्षे तु पक्षद्वयस्थरूपान्तरतुल्यानि रूपाण्येव जातानि । तथापि पक्ष- साम्याद्यावदेव पक्षद्वयस्थरूपान्तरं तावदेव पक्षद्वयस्थाव्यक्तानां व्यक्तमानमिति जातम् । ४८८ यद्यव्यक्तान्तरतुल्येन रूपान्तरमिदं लभ्यते तदैकेन यावत्तावता किमिति त्रैराशिकेन व्यक्तं मानं जायते । यत्र पक्षयोरव्यक्तवर्गादि साव्यक्तरूपं भवति तत्रैक- वर्णंमध्यमाहरणेनाव्यक्तराशेर्मानं व्यक्तं साध्यम् । पूर्ववत्पक्षसाम्ये समशोधनेच कृते 'अव्यक्तवर्गादि यदावशेषमित्यादिना पक्षयोमू ले ग्राह्ये । मूलयोः समीकरणेनैकवर्ण- बीजादेवाव्यक्तराशेर्व्यक्तमानं जायते । यत्र पक्षयोरव्यक्तवर्णद्वयाद्यं सरूपं भवति तत्रा- नेकवर्णबीजेनाव्यक्तवर्णानां व्यक्तानि मानानि भवन्ति । तत्र पक्षयोरेकपक्षाद्यवर्णतुल्य- मव्यक्तं शोध्यम् । तथा सति प्रथमपक्षे आद्यवर्णाङ्काभावः । द्वितीयपक्षे पक्षद्वयस्थाद्यवर्णाङ्कान्तरतुल्य आद्यवर्णाङ्को जातः । द्वितीयपक्षस्थ- कालकादिवर्णाङ्काः रूपाणि च सर्वाणि पक्षयोः शोध्यानि । तत्र द्वितीयपक्षे कालकवर्णाङ्काभावो रूपाभावश्च । प्रथमपक्षे पक्षद्वयस्थकाल- कादिवर्णाङ्कान्तरतुल्या: कालकादिवर्णाङ्का रूपान्तरतुल्यानि रूपाणि च भवन्ति । प्राग्वत् त्रैराशिकेन पक्षद्वयस्थाद्यवर्णाङ्कान्तरतुल्याङ्क: पक्षद्वयस्थद्वितीयादि वर्णा- वान्तरतुल्या द्वितीयादिवर्णा रूपान्तरतुल्यरूपाणि च भाज्यानीति सिद्धम् । अत्र यल्लभ्यते तदेकस्य यावत्तावतो मानमिति स्पष्टम् । अत्र भाज्ये यावन्तो वर्णाः सन्ति तेषां वास्तवानि यदि व्यक्तमानानि ज्ञायन्ते तदा तैः स्वस्ववर्णाङ्काननुपातेन संगुण्य रूपेषु च प्रक्षिप्य भाज्यस्य सम्पूर्णस्य व्यक्त- मानं जायते । इदमाद्यवर्णाङ्कान्त रहतं सल्लब्धिराद्यवर्णमानं स्यात् । भाज्यस्थ- सर्ववर्णानामिष्टमानकल्पनमनुचितमिति भाज्यस्थमिष्टमेकं वर्णं हित्वान्येषामिष्टानि मानानि कृत्वा रूपेषु प्रक्षिप्तानि । तस्माद् भाज्ये कालकादिरेक एव वर्ण इष्टाङ्क- गुणितः सरूपः सिद्धः । आद्यवर्णाकोऽस्य भाजकः | भाजकभाज्ययोरव्यक्तं कुत्रास्तीति विचार्यते । चतुर्णामव्यक्तानामिदं मानं तदैकस्य किमित्यव्यक्तेनाव्यक्तानामपवर्त्ते 'स्या- द्रूपवर्णाभिहतौ तु वर्ण:' इत्यस्य व्यत्यासेन भाजके रूपाण्येव सिद्धानि | भाज्ये तु यानि रूपाणि तानि व्यक्तान्येव । अव्यक्ते कालकवणें योऽङ्कः सोऽपि व्यक्त एव । कालकचतुष्टयं नाम कालकमानं चतुर्गुणितम् । तत्र भाज्याङ्कः कालकमानगुणितो रूपयुतः सम्पूर्णभाज्यो भवति । अयं भाजकेन भाज्य: । अत्र कालकमानं न ज्ञायत इति भाज्योऽङ्कः केन गुणो रूपैर्युतो भाजकहृतः शुद्धयेदिति कुट्टकविषयोऽयम् । कुट्टकेन यो गुणस्तत् कालकमानं या लब्धिस्तद्यावत्तावन्मानम् । अत उक्तं • गुणाप्ती ते भाज्यतद्भाजकवर्णमाने' इति ।