पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः अत्र पक्षयोरित्युपलक्षणं तेन पक्षाणां साम्यं विधायानेकवर्णसमीकरणोचित समशोधनेनैकस्य वर्णस्योन्मितीनां बहुत्वे | समीकृतच्छेदगमे तु ताभ्यस्तदन्यवर्णोन्मितयः प्रसाध्याः । ‘अन्त्योन्मितौ कुट्टविधेर्गुणाप्ती' 'विलोमकोत्थापनतोऽन्यवर्णमानानोत्यादि- बालैरपि बुद्धयते । यत्रानेकवर्णोक्तप्रकारेण तुल्यशोधने कृते पक्षस्यैकस्योक्तवद्वर्गमूले च गृहीते द्वितीयपक्षस्य वर्गमूलं वर्गप्रकृत्या गृह्यते तयोः समीकरणविधिना राशि - र्ज्ञायते तदनेकवर्णसम्बन्धिमध्यमाहरणम् । भावितमधिकृत्य पक्षसमीकरणं यत्र तद् भावितम् । भावितसूत्रोपपत्तिः क्षेत्र- गता राशिगता चाचार्येरेवोक्ता बीजे | भावितमपि नियतानि यत राशिप्रतिपाद- कत्वात् । द्विविधम् । अनेकवर्णतन्मध्यमाहरणयोरनियता एव राशयः समायान्ति । कुट्टकवर्गप्रकृतिमूलकत्वात्तयोः एकवर्णतन्मध्यमाहरणयोविषयीभूतानि यत राशय एव । एकवर्णविषयाण्यप्युदाहरणान्यनेकवर्णं बीजादप्यानीयन्ते तथापि तानि नानेक- वर्णविषयाणि | व्यक्तगणितविषयाण्यव्यक्तगणितादिव । ४८९ अन्यथा विषयसाङ्कर्यापत्तिरित्याहुः । तेन बीजोपपत्तिः स्पष्टैव । यावत्प्रमाणं गतेन्दुद्युराशिरिति सिद्धम् । कल्पचान्द्रैः कल्पसावनानि तदैभिः किमिति गताहर्गणो भवतीति ततः सावनाख्य इत्युक्तम् । अत्रोदाहरणमाह-ये याताधिकमासहीनदिवसा इति ॥ १०-१२। इदानीं महाप्रश्नमाह - चक्राग्राणि गृहाग्र काणि च लवाग्राणि ग्रहाणां पृथग्- यानि स्युः कलिकाग्र काणि विकलाग्राणीह धीवृद्धिदे । चन्द्रार्कारगुरुज्ञभार्गव चलच्छायासुवानां तथा पूर्वं सिद्धमहर्गणागमविधौ न्यूनाहशेषं च यत् ।। १३ । षट्त्रिंशत् सहितानि तानि कुदिनैस्तष्टानि दृष्ट्वाग्रका- ण्याचष्टे स्फुटकुट्टके पटुमतिः खेटान् दिनौघं च यः । तं मन्ये गणिताटवीविघटनप्रौढिप्रमत्ताखिल- ज्योतिर्वित्करिकुम्भपीठलुठनप्रोत्कण्ठकण्ठीरवम् ॥ १४ । अथास्य भङ्गः-- उद्दिष्टं क्वह' १५७७९१७५०० तष्टमम्बुधिहृतं शुध्येन्न चेत् तत् खिलं १. अत्र लल्ल:- व्योमाभ्रबाणतुरगक्षितिनन्दशै लक्ष्माभृच्छिली मुखभुव: १५७७९१७५०० क्षितिवासराः स्युः । पूर्णाभ्रसायकशिलोच्चयरामदत्रद्वीभेषुशीतकिरणा १५८२७३७५०० भपरिभ्रमाः स्युः ॥ शि० धी० ग्र० मध्य० ८ श्लो० । सि० - ६२