पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये ४८६ उदाहरणम् - ये याताधिकमासही नदिवसा ये चापि तच्छेपके तेषामैक्यमवेक्ष्य जिष्णुजकृताच्छास्त्राद्यथैवागतम् | भ्रूशैलेन्दुखखाभ्रषट्करयुगाष्टाब्ध्यङ्ग ६४८४२६०००१७१ तुल्यं यदा काले कल्पगतं तदा वदति यः स ब्रह्मसिद्धान्तवित् ।। १२ । वा० भा० – अहंगंणानयने ये लब्धा अधिमासा: क्षयाहाश्रये च तच्छेषके तेषामैक्यं भूशैलेन्दुखखाभ्रषट्करयुगाष्टान्ध्यङ्ग ६४८४२६०००१७१ तुल्यं कृताष्टाष्टिगोऽध्यादिभिः ८६३३७४४९१६८४ गुणितं जातम् ५५९८३४४६८२९२३२६४२२०७७९६४ । व्येक- चन्द्राहैः १६०२९९८९९९९९९ भक्तं लब्धम् ३४९२४१९३२३३६ | जातोऽवशेषमितो गतेन्दुधुगण: १०३.० । अस्मात् प्राग्वदवमानि १६१ | अवमशेषं च २६७४२६००००००। सावनाहगंणश्च १०१३९ । अथ पृथग्गतेन्दुधु गणोऽधिमासैर्गुणितो युगेन्दुदिनैर्भको लब्धं गताधिमासाः १० । अधिमासशेषं च ३८१००००००००० । लब्धाधिमासै दिनीकृत ३०० रून इन्दुधुगणः १०३०० । सौराहगंणो भवति १०००० । अतः कल्पगतम् । सप्तविंशतिः २७ वर्षाणि । नव ६ मासाः । दश १० दिनानि । अस्योपपत्तिर्बीजगणितेन—एको हरश्चेद्गुणको विभिन्नावित्यादिना । कथमस्य विषय इति चेत् । उच्यते । गतसौरदिनेभ्यो यावन्तोऽधिमासा यच्च शेषं गतचन्द्रदिनेभ्योऽपि तावन्त एव भवन्ति तावदेव चावशेषम् । अवमान्यवमशेषं च चन्द्रदिनेभ्य एव सिध्यति । अतस्तयोः शेषयोश्च योग उदाहृते युगाधिमासावमयोगो गुणो युगेन्दुदिनानि हरः | गतेन्दुदिनप्रमाणं यावत्तावत् १ । तद्गुणेन गुणितं हरेण भक्तम् । तत्र लब्धिप्रमाणं कालकः १ | तद्गुणितं हरं गुणकगुणिताद्या- वत्तावतो विशोध्य ज्ञातं शेषम् | या २६६७५८५०००० का १६०२९९९०००००० । एतदधिमासावमशेषैक्यम् । यो लब्धः कालकः १ स गताधिमासावमानामैक्यम् । तच्छेषे यदि क्षिप्यते तवा चतुर्णां योगः कृतो भवति । या २६६७५८५०००० का १६०२९९८९९९९९९ । अस्य चतुर्णां योगस्योद्दिष्टयोगेन समीकरणे क्रियमाणेऽधिमासावमयोगो भाज्य: । व्येकेन्दुदिनानि हरः । उद्दिष्टयोग ऋणक्षेपः । एवं सति लाघवार्थं रूपशुद्धावाचार्येण स्थिर: कुट्टकः कृतः । स च कृताष्टाष्टोत्यादि । १०-१२ । वा० वा० - सशेषाधिमासावमदिनैक्यज्ञानात् कल्पगतदिनगणं यो वक्ति तत्प्रशंसामाह - ये याताधिकमासहीनदिवसा इति । अत्र सूत्रमाह - कृताष्टाष्टिगोब्ध्यब्धिशैलामरतुद्विपघ्ने सशेषाधिमासावमैक्ये । भवेद्व्येकचन्द्राहभक्तेऽवशेषं गतेन्दुधुराशिरिति । अत्र कल्पगतचान्द्रप्रमाणमव्यक्तमेकं या १ कल्पितम् । यदि कल्पचान्द्रः कल्पाधिमासा लभ्यन्ते तदा यावत्तावता किमिति लब्धं गताधिमासाः शेषमधिशेषम् |