पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः अथान्यं प्रश्नमाह - ये याताधिकमासहीनदिवसा ये चापि तच्छेषके तेषामैक्यमवेक्ष्य यो दिनगणान् ब्रूतेऽत्र कल्पे गतान् । संश्लिष्टस्फुटकुट्टकोद्भटबटुक्षुद्रणविद्रावणे तस्याव्यक्तविदो विदो विजयते शार्दूलविक्रीडितम्' ।। १० । अथास्य भङ्गः-- कृताष्टाष्टिगोब्ध्यब्धिशैलामरर्तु- द्विप ८६३३७४४९१६८४ घ्ने सशेषाधिमासावमैक्ये । भवेद्वथेकचन्द्राह १६०२९९८९९९९९९ भक्तेऽवशेषं गतेन्दुघुराशिस्ततः सावनाद्यः ॥ ११ । ● – स्पष्टार्थम् । वा० भा०. १. अत्र बापूदेवोक्तः प्रश्न:- अधिमासावमशेषे ज्ञात्वा योऽहर्गणं वदेदाशु । संश्लिष्टस्फुटकुट्टकवेत्तृणामग्रणी: स: स्यात् ॥ अस्य भङ्गश्च -- 1 कल्पाधिमासावमसङ्घयोगे भाज्ये च तच्छेषयुतौ च शुद्धौ । कल्पेन्दुघस्रौघमि हरे यो गुणा गतेन्दुधुगणो भवेत् सः ।! सावनाहर्गंणं तस्माद्गतसौरसमागणम् । मासादिकं च विज्ञातुं शक्नुयाद्गणकः सुधीः ।। अत्र श्रीम० देवोक्तः प्रश्न: - यदाऽधिमासावमशेषके च समे तदा कल्पगतं वदेद्यः । तमेव मन्ये गणकाऽग्रगण्यं शिरोमणि स्पष्टतरं स वेत्ति || अस्योत्तरम् - द्विदेवाग्निभूम्यवि २१३७३३२ मितैश्चान्द्रदिनैः क्रमात् । भवेच्च शेषयोः साम्यं कल्पारम्भात् पुनःपुनः ॥ अन्य प्रश्न:- ४८५ लब्धाऽधिमासाः स्वाग्र ण सहितास्ते यदा सखे । कल्पचान्द्राहतुल्या: स्युर्वेद कल्पगतं तदा || अस्य भङ्ग:- कल्पाधिमासाः किल भाज्यराशिः शुद्धिस्तु रूपप्रमिताऽत्र कल्प्या | व्येकेन्दुघस्रोघहरे गुणो य: स्यादिष्टचान्द्राहमितिः स एव || प्रश्न: - लब्धा दिनक्षया ये ते निजशेषयुता यदा । समाः कल्पेन्दुघस्रंः स्युस्तदा कल्पगतं वद || अस्य भङ्गः- भाज्य: कल्पावमानि स्याद्धारो व्येकेन्दुवासराः । रूपशुद्धौ गुणो यः स्यात् स वै चान्द्रगणो भवेत् ॥