पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ सिद्धान्तशिरोमणी गोलाध्याये न्धात् । तान् कान् यानाकर्ण्यापि तस्य सुवर्णवर्णवदनं क्षणाद्वैवर्ण्यमेति । तस्य कस्य यः प्रौढ्यात्त्वखर्वकुगर्वपर्वतशिरोऽधिरूढः । प्रश्नप्रतिपादनप्रयोजनमाह - विचित्रभङ्गिचतुरप्रीतिप्रदानायेति । प्रश्नान- मून्प्रपठतः किं फलमित्यत आह प्रायशः प्रश्नैविना गणकः प्रौढ़सभासु प्रौढि नैति । अतस्तान् वच्मीति सम्यगुक्तम् । केवलप्रश्नकथनं नोचितमिति तदुत्तराण्यपि वक्ष्यामीति प्रतिजानीते--पाटयेति । तेषां प्रश्नानामुत्तराणि पाटया कथितानि बीजेन च कथितानि वर्गप्रकृत्या कथितानि कुट्टकेन च कथितानि गोलग्रन्थेन कथितानि यन्त्रैश्च कथितानि | बालावबोध इति निमित्तसप्तमी तेन बालावबोधार्थं कतिचिदुत्तराणि पुनर्वक्ष्यामोत्यर्थः । आचार्येण तु पूर्वं ग्रहगणितं कृतं ततः पाताध्यायादनन्तरं पाटीकुट्टकवर्ग- प्रकृतिबीजसूत्राणि संक्षेपेण विरचितानि । ततो गोलाध्याय ईषदीषदिह मध्यगमादावि- त्यन्तं विरचितस्ततो यन्त्राध्यायस्तदनन्तरमयं प्रश्नाध्यायो रचित इति प्रश्नोत्तराणि पाट्यादिभिः कथितानीत्युक्तम् । यतः सन्ति क्वचिदीदृशाण्यपि सिद्धान्तशिरोमणि- पुस्तकानि । ईदृशं सिद्धान्तशिरोमणिपुस्तकं विरचय्योदाहरणयोजनासहितानि बीज- पुस्तकानि सूत्रविशेषसहितानि विरचितानि । अत एवानेकवर्णसम्बन्धिमध्यमाहरणे इदं किल सिद्धान्ते मूलसूत्रं संक्षिप्योक्तमत्र किञ्चिद् विस्तार्योच्यत इत्युक्तम् । एवं लीलावतीबीजपुस्तकं विरचय्य गोलाध्यायभाष्यं रचितम् । तदनन्तरं ग्रहगणितभाष्यं विरचितमित्याचार्यग्रन्थादेवोपलभ्यते । कुट्टकविवृतावाचाचार्येणोक्त- मस्योदाहरणानि प्रश्नाध्याय इति तत्सङ्गच्छते । तस्मादुत्तराणि पूर्वमुक्तानि प्रश्ना- स्त्वत्रोच्यत इति स्फुटं प्रश्नाध्यायत्वमस्य । अत्र यान्युत्तराणि कथ्यन्ते तानि तु बाला- वबोधमात्रप्रयोजनानि न विद्वज्जनावबोधार्थानि स्पष्टमुक्तम् । प्रश्नास्तु सर्वोपयोगायात्र प्रतिपाद्यन्त इति महाविशेषः ॥ १-२ । अथ बुद्धमतः प्रशंसामाह -- अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः । किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते ॥ ३ । वर्गं वर्गपदं धनं घनपदं संत्यज्य यगण्यते तत् त्र राशिकमेव भेदबहुलं नान्यत् ततो विद्यते । एतद्यद्बहुधा स्मदादिजडधीधीवृद्धिबुद्धया बुधै विंद्वच्चक्रचकोरचारुमतिभिः पाटीति तन्निर्मितम् ।। ४ । नैव वर्णात्मकं बीजं न बीजानि पृथक् पृथक् | एकमेव मतिर्बीजमनल्पा कल्पना यतः ॥ ५। दा० भा० – स्पष्टार्थम् ।। ३-५ ।