पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ४८३ वा० वा० –पाटीबीजयोः स्वरूपमाह — अस्तीति । त्रैराशिकमात्रं पाटीबुद्धिरेव बीजम् । ननु सूर्यादिप्रणीतशास्त्रेषु कथं पाटीबीजगणिते न प्रतिपादिते । मनुष्यकृतौ क्थं तत्प्रतिपादनमित्यत आह - किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते । इति मया सुरप्रभृतीनां सुबुद्धीनां किं नामाज्ञातमस्ति पाटीकुट्टकवर्गप्रकृतिबीजप्रतिपाद्यविषयेषु । अतस्त्वार्षसिद्धान्तेषु तानि न प्रतिपादितानि । तन्मूलोत्तरप्रश्नाप्रतिपादनं च । मनुष्यास्तदपेक्षया मन्दबुद्धयोऽतस्तद्बुद्धिविवृद्धये पाटीबीजगणिताद्यमुच्यते । एतदेव स्पष्टयति । वर्गं वर्गपदमिति। नैव वर्णात्मकमिति । एतदेव बीजे विशदीकृतम् । बीजं मतिविविधवर्णसहायिनीत्यादिना । मनुष्येष्वपि ये पाटीबीजकुट्टकवर्गप्रकृतिगोलयन्त्र- ग्रन्थविमलमतयस्ते तु प्रश्न श्रवणमात्रेण तदुत्तरं प्रतिपाद्यन्ते । ये तु मन्दबुद्धयो यथा श्रुतार्थग्राहिणस्तदर्थमत्रोत्तराणि प्रतिपाद्यन्त इति भावः | पाटीबीजवर्गप्रकृतिकुट्टकोदा- हरणानि ग्रहगणितप्रतिपाद्यावमशेषादिराशिपराणि वेद्यानि | ग्रहगणितगोलयोः प्रति- पादितप्रश्नानामत्र पुनः प्रतिपादनं केवलप्रश्नाध्यायमात्रपाठकोपयोगायेति भाष्ये वक्ष्यते ॥ ३-५ । अथ प्रश्नानाह -- अहर्गणस्यानयनेर्कमासाश्चैत्रादिचान्द्रैर्गणकान्विता किम् । कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवोऽनुपातः ।। ६ । वा० भा० – अयमस्य भङ्गश्च पूर्वं व्याख्यात एव ॥ ६ ॥ - वा० वा०- – कुतोऽधिमासाऽवमशेषकेत्युक्ते इति प्रागुक्तप्रश्न मनुवदति – अह- गंणस्यानयनेऽर्कमासा इति । अस्योत्तरं गोले प्रतिपादितं दर्शावधिरित्यादिना ॥ ६ ॥ अथान्यमाह -- चन्द्रश्चन्द्रगुणो रवी रविगुणश्चाङ्गारकोऽङ्गाहत- स्तद्योगो गुणसंगुणात् सुरगुरो राश्यादिकात् पातितः । शेषं चापरपर्ययोत्थखचरेणोनं युतं वा शनिः - स्यात् अथास्य भङ्गः- केऽन्ये भगणा वदेति तव चेदस्ति श्रमो मिश्रके ॥ ७ ॥ उद्देशकालापवदेव कार्य योगान्तराद्यं ग्रहपर्ययाणाम् । दृष्टस्य चक्राणि तदूनितानि तैरूनितं तत् क्रमशो विधेयम् ।। ८ । अज्ञातखेटः स्वमृणं कृतश्चेदज्ञातचक्राणि भवन्ति तानि । क्वहाः प्रदेया अविशुद्धशुद्धौ क्वहैश्च तच्यं कुदिनाधिकं चेत् ।। ९ ।