४८० सिद्धान्तशिरोमणी गोलाध्याये सरसमभिलपन्ती सत्कवीनां विदग्धानव- रतरमणीया भारती कामितार्थम् । न हरति हृदयं वा कस्य सा सानुरागा नवरतरमणी या भारती कामितार्थम् || १३ | न भवति हृतचित्तो वाचमाकर्ण्य रम्यां परभृतसरसां ना कोमलां सत्कवीनाम् । सततमुपगतानां साम्बुजैर्वा पयोभिः परभृतसरसां नाकोडमलां सत्कवीनाम् ॥ १४ ॥ त्रिदिवमधरयन्तस्तीरपङ्केन नानारुचि- रसिकतया वाश्लेषिताङ्गैः सुवृत्तैः । कृतिन इह रमन्ते रम्यसारस्वतौघे रुचि - रसिकतया वा श्लेषिताङ्गै सुवृत्तैः ।। १५ ।
वा० भा० – वर्षाकाले हृदयस्थमदयं दयितं प्रति विरहिणी किलेवं ब्रूते । हे दयित निर्दयास्मिन्नप्यागते काल एत्यागत्य कि न सिञ्चसि । काम् । मा इति माम् । कथंभूताम् । मदन- दहन खिन्नाम् । कामाग्निदाहाकुलाम् | पुनः किं विशिष्टाम् | दीनाम् । केन । आत्मदृग्वारिणा स्वदृषसलिलेन । कासां संबन्धिनि काले । नदीनाम् । कथंभूतानाम् | परिमलबहलानाम् । परि समन्तात् । मलबहलानाम् । न केवलं तासाम् । मालतीनमपि । परिमलबहलानामामोदबह- लानाम् । न केवलं तासामपि । लतीनामिति रतीनाम् । तासां च परिमलबहलानाम् । तत्र परस्य भावः परिमा। परिम्णो लवः परिमलवः । तं हरन्तीति परिमलवहराः । तासां परिमल- वहराणाम् | रलयोबॅवयोश्चैक्यस्य लषे तु गृहीतत्वात् । मानिनीनां मानिनां वा कामातुराणां मानभङ्गन तुच्छत्वमापादयन्तीनां रतीनामित्यर्थः । अथ कविवर्णनम् । का सत्कवीनां विदग्धा भारती वाणी कस्य हृदयं न हरति । अपि तु सर्वापि सर्वस्य । अनवरतरमणीया सततं रम्या | कि कुवंती । अभिलपन्ती । कम् । अमितार्थम् । असंख्यमर्थम् । किंविशिष्टम् | सरसम् । सा च कस्य न हरति । किम् । अय हृदयं वा । या । का। नवरतरमणी । अपूर्वसुरता युवती । किंविशिष्टा | भारती भारतसम्बन्धिनी नर्तकस्त्री । कथंभूता सती | कामिता | पुनः किविशिष्टा | सानुरागा | कि कुवंती | सरसम- भिलपन्ती । विदग्धा | कः ना नरः सत्कवीनां वाचमाकण्यं हृतचित्तो न भवति । किंविशिष्टाम् । अमलां निदूषणाम् । पुनः कथंभूताम् | सततं रम्याम् । पुनः किं विशिष्टाम् परभृतसर साम् । परभृतस्य कोकिलस्थेव सरसां रसवतीम् । अथ द्वितीयोऽथं: । के उदके वयः पक्षिण: सन्तश्त ते कवयश्च सवयो हंसाया जलपक्षिणः । तेषां वाचं सततं रम्यामाकर्ण्य कः ना हृतचित्तो न भवति ।