सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुवर्णनम् निदाघदाहार्तिविघातहेतवे वनाय कामोच्छ्रितचूतकेतवे । व्रजन्ति वापीजलकेलिलालसाः शुचौ रतिस्वेदगलजलालसाः || ४ | मदनदहनखिन्नामागतेऽप्येत्य काले परिमलबहलानां मालतीनां नदीनाम् । अदय दयित सिञ्चस्यात्मद्ग्वारिणा किं परिमलबहलानां मा लतीनां न दीनाम् ।। ५ । उच्चैर्विरौति हि मयूरकुलं यदम्ब मन्दं कदम्बमकरन्दविमिश्रितश्च । वातः प्रवाति पतिरेति न तेन मन्ये निर्घाणनिघृणविकर्णविहृत्वमस्य || ६ || एवं विधं विरहिणी विरहेण खिन्ना भिन्नाञ्जनच्छविघने गगने घनत । मत्वा प्रियं तमदयं हृदयं प्रविष्टं ब्रूते सपेशलमलं परिहासमिश्रम् ।। ७ । स्वतनुजवनराज्या पुष्पवत्याश्लिषन्त्या ४७९ ह्यनुचितकृतसङ्गोस्मीति शैलोऽनुतप्तः । निशि शशिकरचञ्चन्निर्झ रथुकल्पैः शरदि हृदिजखेदस्वेदवान् रोदितीव ॥ ८ ॥ सहस्यकाले बहुशस्यशालिनीं चितामवश्यायकमौक्तिकोत्करैः । ग्रहृष्टपुष्टाखिलगोकुलामिलां विलोक्य हृष्यन्त्यधिकं कृषीवलाः ॥ ९ ॥ अरुणनीलनिमीलितपल्लवं प्रचुरफुल्लसमुल्लसनैः श्रियम् । वहति कांचन काञ्चनकाननं नवतरां नितरां शिशिरागमे ।। १० । अपटुतिग्ममरीचिमरीचिभिर्नहि तथा शिशिरे शिशिरक्षतिः । निशि यथोष्मलपीनघनस्तनी भुजनिपीडनतः स्वपतां नृणाम् ।। ११ । ऋतुव्यावर्णनव्याजादीपदेषा प्रदर्शिता । कविता तद्विदां प्रीत्यै रसिकानां मनोहरा ।। १२ ।