पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ सिद्धान्तशिरोमणौ गोलाध्याये एवं बहुधा यन्त्र स्वयंवहं कुहकविद्यया भवति । नेदं गोलाश्रितया पूर्वोक्तत्वान्मयाप्युक्तम् ।। ५८ । वा० भा० – स्पष्टार्थमिदम् । अत्र भ्रमणं कालानुसारं स्वबुद्ध्वा विधातव्यमित्य- ध्याहार्य॑म् ।। ५७-४८। इति श्रीभास्करोये सिद्धान्तशिरोमणी वासनाभाष्ये मिताक्षरे गोले यन्त्राध्यायः । अत्र ग्रन्थसंख्या ३७५ | वा० वा० - अधोरन्ध्रनलमिति । अनेन सापेक्षयन्त्राणि ग्राम्याणीत्युक्तम् । मयूरयन्त्रब्रह्मचारियन्त्रश वेधयन्त्रवधूवर योगयन्त्रमेषाजयुद्धयन्त्रशङ्खवादनयन्त्रघण्टाप- टहादिवादनयन्त्रवानरयन्त्रघटीयन्त्रहंसयन्त्राद्यानि स्वयंवहगोलयन्त्राद्यानि च बहुधा यन्त्राणि भवन्तीत्याह- एवं बहुधायन्त्रं स्वयं वहं कुहकविद्यया भवति । नेदं गोलाश्रितयेति । उज्झितगोलाश्रयाणां स्वयंवहयन्त्राणामिह प्रतिपादनं श्रीमदाचार्यस्य नोचितमित्यत आह पूर्वोक्तत्वान्मयाप्युक्तमिति । दिनगतकाला- वयवज्ञानसम्पादकत्वमेतेषामपि विद्यत इति यथापूर्वेरुतानि तथा मयाप्युक्तानीति भावः ॥ ५७-५८ । श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्, भट्टाचार्य सुसाद्दिवाकर इति ख्याताजनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके, सत्सिद्धान्तशिरोमणेरयमगात् यन्त्राधिकारः स्फुटः ॥ अथ ऋतुवर्णनम् उत्फुल्लन्नवमल्लिकापरिमलभ्रान्तभ्रमद्भ्रामरे रे पान्थाः कथमव्यथानि भवतां चेतांसि चैत्रोत्सवे । मन्दान्दोलित चूतनूतनघनस्फारस्फुरत्पल्लवै- रुद्वेलन्नववल्लरीष्विति लपन्त्युच्चैः कलं कोकिलाः ।। १ । स्वकुसुमैर्मलिनामिव मालतीमवहसन्ति वसन्तजमल्लिकाः । उपवनं विनिवारयतीव ताः किसलयैर्मलयानिलकम्पितैः ॥ २ ॥ विहाय सौधं तृणकुड्यमण्डपे प्रसिच्यमाने सलिलैः समन्ततः शुचौ रमन्ते विरलं विलासिनः प्रियाजनैः सीकरसेचनोन्मुखाः ॥ ३ । अथ ऋतुवर्णनमाह -