यन्त्राध्यायः ४७७ वा० वा०—अथ कौतुकार्थं स्वयं वहयन्त्रमाह' - लघुदारुजसमचक्रे समसुषि- रारा इति । रसपूर्णे तच्चक्रमिति | स्वयंवहान्तरमाह - उत्कीर्येति । तदुपरीति । पिहितछिद्रमिति ॥ ५०-५२३ । अथान्यदाह-- ताम्रादिमयस्याङ्कुशरूपनलस्याम्बु पूर्णस्य ।। ५३ । एक कुण्डजला तद्वितीयमग्रं त्वधोमुखं च बहिः । युगपन्मुक्त चेत् क नलेन कुण्डाद्वहिः पतति || ५४ । नेम्यां बद्ध्वा घटिकाचक्रं जलयन्त्रवत् तथा धार्थम् । नलकग्र च्युतसलिलं पतति यथा तद्घटीमध्ये ।। ५५ । भ्रमति ततस्तत् सतत पूर्णघटीभिः समाकृष्टम् । चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया ॥ ५६ । वा० भा० - ताम्रादिधातुमयस्याङ्कुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्ण स्यैकमग्रं जलभाण्डेऽन्यदग्रं बहिरधोमुखं चैकहेलया यदि विमुच्यते तदा भाण्डजलं सकलमपि नलेन बहि: क्षरति । तद्यथा | छिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्य जलपूर्णसुषिरस्यै- कमग्रं भाण्डाबहिरधोमुखं द्रुतं यदि घ्रियते तदा भाण्डजलं सकलमपि नलेन बहिर्याति । इदं कुक्कु टनडीयन्त्रमिति शिल्पिनां हरमेखलिनां च प्रसिद्धम् । अनेन बहुवश्चमत्काराः सिद्ध्यन्ति । अथ चक्रनेम्यां घटीबंद्ध्वा जलयन्त्रवत् द्वयाधा राक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलं तस्य घटीमुखे पतति । एवं पूर्णघटीभिराकृष्टं तद्भ्रमत् केन निवार्यते । अथ चक्रच्युतस्योदक- स्याधःप्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैरपेक्ष्यम् ।। ५२३-५६ । वा० वा० – अन्यदप्याह- ताम्रादिधातुमयस्येति । एकमिति । नेम्यामिति । भ्रमतीति । वासना भाष्ये स्पष्टमिदम् ॥ ५२३-५६। इदानीमन्येषां स्वयंवहमुपहसन्नाह -- यदधोरन्ध्रनलं तत् सापेक्षत्वात् स्वयंवहं ग्राम्यम् | चतुरचमत्कारकरी युक्तिर्यन्त्र नहि ग्राम्यम् ॥ ५७ । १. अत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्तः -- लघुदारुमयं चक्रं समसुषिरारान्तरपृथगराणाम् । अर्धेन रसेन पूर्ण परिधौ संश्लिष्टकृतसन्धिः ॥ ५३ | तिर्यक्कीलो मध्ये द्वयाधारस्थोऽस्य पारदो भ्रमति । छिद्राण्यूवं मधोऽतश्चक्रमजस्रं अपि च सिद्धान्तसुन्दरे ज्ञानराज:-- स्वयं भ्रमति । ५४ । नवतरामलयन्त्रचयं ब्रुवे । नूपतिचित्त चमत्कृतिकारकं जलतकानलिकां कुशभामुखोद्गत समीरवशेन सदावहा ||
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१९
दिखावट