सिद्धान्तशिरोमणी गोलाध्याये उपविष्टस्योर्ध्वंस्थस्य च दृष्ट्युच्छ्रायौ तावेव कोटी भवतः । प्रतिबिम्बितं वंशाग्रदृष्टजनस्य स्वस्यान्तरं भुजद्वयम् | 'निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्य- विश्लेष' इति सूत्रेणात्मवंशान्तरं वंशौच्यज्ञानं च सुगंमम् ॥ ४८ । किंवा यष्ट्येत्यस्योदाहरणम्- षडङ्कुरमरैस्तुल्यान्यङ्गुलान्यथवा क्रमात् । आत्मतोयान्तरं दृष्ट्वा वंशौच्च्यं चान्तरं वद ॥ वा० भा० – ऊध्वंस्थस्य जलान्तरम् ६६ । उपविष्टस्य जलान्तरम् ३३ | दृष्ट्युच्छ्रायौ ७२ | २४ । लब्धं तदेव भूमानं हस्ताः ८८ | वंशौच्च्यं हस्ताः ६३ । इति धोयन्त्रम् । वा० वा० — अत्रोदाहरणमाह - षडङ्करिति ॥ ४९ । ४७६ अथ स्वयंवहमाह - लघुदारुजसमचक्रे समसुषिराराः समान्तरा नेम्याम् । किंचिद्वक्रा योज्याः सुषिरस्याध पृथक्ः तासाम् ।। ५० । रसपूर्णे तच्चक्रं द्वयाधाराक्षस्थित स्वयं भ्रमति । वा० भा० - ग्रन्थिकीलरहिते लघुदारुमये भ्रमसिद्धे चक्र आराः । किंविशिष्टाः । समप्रमाणा: समसुषिरा: समतौल्याः समान्तरा नेम्यां योज्याः । ताश्च नद्यावर्तवदेकत एव सर्वाः किंचिद्वक्रा योज्याः । ततस्तासामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषि- रार्धमेव पूर्णं भवति । ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाणवद्व्याधारस्थं स्वयं भ्रमति । अत्र युक्ति: । यन्त्रैकभागे रसो ह्यारामूलं प्रविशति । अन्यभागे त्वारा धावति । तेनाकृष्टं तत् भ्रमतीति ॥ ५०-५०े। अथान्यदाह-- उत्कीर्य नेमिमथवा परितो मदनेन संलग्नम् ।। ५१ । तदुपरि तालदलाद्य कृत्वा सुषिरे रसं क्षिपेत् तावत् । यावद्रसैकपा क्षिप्तजलं नान्यतो याति ।। ५२ । पिहितच्छिद्र तदतश्चक्रं भ्रमति स्वयं जलाकृष्टम् । वा० भा० – यन्त्रनेमि भ्रमयन्त्रेण समन्तादुत्कीर्य द्व्यङ्गुलमात्रं सुषिरस्य वेधो विस्तारश्च यथा भवति ततस्तस्य सुषिरस्योपरि तालपत्रादिकं मदनादिना संलग्नं कार्यम् । तदपि चक्रं द्वयाधाराक्षस्थितं कृत्वोपरि नेम्यां तालदलं विद्ध्वा सुषिरे रसस्तावत् क्षेप्यो यावत् सुषि- रस्याधोभागो रसेन मुद्रितः । पुनरेकपाश्र्वें जलं प्रक्षिपेत् । तेन जलेन द्रवोऽपि रसो गुरुवात् परतः सारयितुं न शक्यते । अतो मुद्रितच्छिद्रं तच्चक्रं जलेनाकृष्टं स्वयं भ्रम- तीति ॥ ५०३ - ५२३ ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१८
दिखावट