पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र प्रश्न:- यन्त्राध्यायः उदाहरणम् - दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वा वंशस्य प्रतिबिम्बितस्य सलिले दृष्ट्वाग्र मात्र सखे । अत्र व त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ॥ ४९ । ४७५ दृष्टा चेत् त्र्यङ्गुला कोटिर्बाहुश्च चतुरङ्गुलः । ऊर्ध्वस्थेनोपविष्टेन बाहुरेकादशाङ्गुलः ।। कोटिरष्टाङ्गुला तोथे वंशाग्रं विध्यता सखे । त्र्येकहस्तौ दुगुच्छ्रायौ वंशौच्च्यं चान्तरं वद || वा० भा० – ऊर्ध्ववेधे कोटि: ३ | भुजः ४ । उपविष्टवेधे कोटि ८ | भुजः ११ । दृष्ट्युच्छ्रायौ क्रमेण ७२ । २४ । लब्धमात्मवंशान्तरं हस्ताः ८८ | वंशौच्च्यं हस्ताः ६३ । अत्रोर्ध्व वेधेऽन्योपविष्टवेधे चान्या यष्टिरिति । अत्रोपपत्तिः— अत्र भित्तेः सुसमे पाइवें तिर्यग्रेखा दीर्घा कार्या । सा किल जलसमा भूः । तत्रेकस्मिन्नेकान्तप्रदेश ऊर्ध्वरेखा कार्या । स किल वंशः । वंशमूलादधोगामिनी वंशप्रमाणवान्या रेखा कार्या । तत् किल वंशप्रतिबिम्बम् | अथ भूरेखाया उपर्यन्यप्रान्ते . दुगुच्छ्रितान्या रेखा कार्या । दृगुच्छ्रायात् प्रतिबिम्बवंशाग्रगामिनी कर्णरेखा कार्या । सा कर्णरेखा भूरेखायां यत्र लग्ना तत्रस्थे जले वंशाग्रं द्रष्टा पश्यति । जलादुभयतो द्वे त्र्यस्त्रे भवतः । तत्र जलवंशमूलयोरन्तरं बाहुः । प्रतिबिम्बवंश: कोटि: । अधः कर्णखण्डं कर्णः । अन्यदात्मजलान्तरं बाहुः । दृष्ट्युच्छ्रायः कोटिः । ऊर्ध्वकर्णंखण्डं कर्णः । रग्ते त्र्यस्त्रे परस्परानुमते । यष्टिवेधेन ये भुजकोटी ते अप्येतदनुसारे । अत उक्तं एवं तोयेऽपीति | कित्वत्र यदौच्च्यमा- च्छति तदुगौच्च्येन होनं कार्यम् । प्रतिबिम्बितस्याधोमुखत्वादृगौच्च्येन सहागच्छति । अतस्तदूनं कृतमिति सर्वमुपपन्नम् ॥ ४८-४९ । वा० वा० – जलान्तरे वेधमाह-एवं तोयेऽप्यौच्यमिति । अत्र भूस्थो द्रष्टा जल- प्रतिबिम्बितं वंशाग्रं पश्यतीति दृष्ट्युच्छ्राययुतः सम्पूर्णवंश: कोटिरात्मवंशान्तरं भुजः वंशाग्रगामिदृक्सूत्रं कर्णं इति क्षेत्रम् । 'निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्यविश्लेषः । भूमिवँशौच्यमतः पृथक् पृथक् पूर्ववज्ज्ञेयमिति ।' सूत्रातिदेशस्तोयेऽप्युचित एव । अत्रानुपातेन या कोटिरागता सा तु दृष्ट्युच्छ्रायहीना कार्या । वंशमात्रौच्यज्ञान- स्यापेक्षितत्वात् । अत आह - किन्तु दृगौच्योनितं भवतीति । प्रतिबिम्बस्याधोमुख- त्वात्तेन सहायातमतस्तद्धीनं कार्यमिति भाष्यञ्च स्पष्टम् । यष्टि विनापि प्रतिबिम्बितवंशौच्यं भूज्ञानं च संभवतीति कित्येत्याह - कि वा यष्ट्येति । अत्र क्षेत्रं दर्शयति – कोटीदृष्ट्युच्छ्रायाविति ।