४७४ सिद्धान्तशिरोमणी गोलाध्याये अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्रवित् ॥ ४७ । उदाहरणम्- इष्टयष्ट्योर्ध्वसंस्थेन वंशाग्रं विध्यता भुजः । दृष्टचतुष्करोज्थान्ययष्ट्या खाङ्काङ्गुल: सखे || निविष्टेन तथा कोटिरङ्गुलं वेधयोरपि । आत्मवंशान्तरं ब्रूहि वंशोच्छ्रायं च वेधवित् || वा० भा० - ऊर्ध्ववेधे भुजः ९६ । कोटि: १ । उपविष्टवेधे भुजः ९० । कोटि: १ । अत्रेष्टो दृगुच्छ्रायौ कल्पितौ ७२ | २४ | यथोक्तकरणेन लब्धं भूमानं हस्ताः २८८० | वंशौच्च्ये च हस्ताः ३३ | अत्रोपपत्तिरव्यक्तकल्पनया । तत्रात्मवंशान्तरभू: या १ । यष्ट्यूध्वंवेधभुजेन ९६ अनेनेयं कोटिलंभ्यते तदा यावत्तावता किमिति | फलं पूर्ववद्द्गुच्छ्रायेण युतं जातं वंशमानम् या । एवमुपविष्टवेधेन च वंशमानम् । या १ रू २१६० । एतौ समाविति समच्छे- ६९१२ ९० या ९० रू ६२२०८० । समीकरणेन लब्धं भूमाना- या ९६ रु २०७३६० दोकृत्य छेदगमे शोधनार्थं न्यासः । गुलानि ६९१२० । वंशयोरत्रोत्थापितयोरुभयत्रापि वंशमानं सममेवाङ्गुलानि ७९२ । ततश्चैवं क्रियोपपद्यत इत्यर्थः ॥ ४४३-४७ । वा० वा० – अथ केवलाग्रवेघेनाह- अग्रं विद्ध्वो वस्थ इति । अत्र भूमान- प्रमाणं यावत् तावदेकं प्रकल्प्यानुपातेन वंशः साध्य: । लम्बान्तरभूभुजे लम्बोच्छ्रा- यान्तरतुल्या कोटिर्लभ्यते तदा यावत्तावन्मितभूम्या किमिति निजनिजभुजभक्तकोटि- प्रमाणगुणयावत्तावन्मितं वंशोर्ध्वखण्डं जातम् । इदं स्वस्वदृष्ट्युच्छ्राययुतं सम्पूर्णवंश- मानमिति पक्षसाम्यं कृत्वैकवर्णसमोकरणेन निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्य- विश्लेषः । भूमानमिति शोभनमुक्तम् । केवलाग्रवेधेनात्मवंशान्तरज्ञानं वंशौच्यज्ञानं च महोत्कर्षाधायकमित्युक्तिविशेषेणाह– ऊर्ध्वंस्थस्येति । यष्ट्येति ॥ ४५३-४७। अत्रोदाहरणमाह — इष्ट अथ जलान्तर्वेधमाह -- एवं तोथेऽप्यौच्च्यं तत्र दृगौच्च्योनितं भवति । किंवा यष्ट्या कोटी दृष्ट्युच्छ्रायौ जलान्तरे बाहू ॥ ४८ ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१६
दिखावट