पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः अथ यन्त्रधारणवेधयोः प्रकार :-- हस्ताभ्यां तद्यन्त्रतुल्येऽन्तरेऽक्ष्णोधृत्वा यन्त्र नेत्रमेकं निमील्य | येथ द्वौ यथाङ्गुष्ठयुग्मच्छन्नौ स्तस्तन्मध्यगा वेधजांशाः ||२|| अथ तावद्वस्तुद्वयान्तरे ज्ञाते तन्मध्यस्थितभूमिज्ञानार्थम् -- वेणोरग्रं स्वजानुस्थदृष्टया यावद्विलोक्यते । स्वस्थानाशमूलान्तः करा वेणुमितिर्भवेत् ||३|| वस्तुनोग्न्तरं षष्टया निघ्नं वेधांशभाजितम् । वस्तुमध्यावधि स्वइमादभूमिमानं प्रजायते ||४|| अथ वस्तुद्वयान्तरज्ञानाभावेऽपि तज्ज्ञानार्थं तदात्मान्तर भूमिज्ञानार्थं चाह-- एकस्थानाद्वस्तुयुग्मं च विद्ध्वा ज्ञेया भागास्तपुरः पृष्ठतो वा । किंचिद्गत्वा ये पुनर्वेधभागा ज्ञेया गण्या चापसारस्वभूमिः ॥५॥ सा भूमिरंशद्वयघातनिघ्नी भागान्तराताऽथ पृथक खषड्हुत् । वस्त्वन्तरं स्यादितरा स्वभागहृत् स्यात् स्ववस्त्वन्तरभूमिमानम् ||६|| अथ वेणुमूलाग्रे दृष्ट्वा तदात्ममध्यभूज्ञानार्थं वंशोच्यज्ञानार्थं चाह -- यन्त्रं धृत्वा लम्बवत् प्राग्वदेव वेणोर्मूलाग्रे सहैव प्रवेष्ये । ज्ञेया वेधांशा द्विधाऽयो ततः स्यात् तद्वंशोच्च्यं स्वस्ववंशान्तरं च ॥७॥ अथात्मवंशान्तरे ज्ञाते वेण्वग्रदर्शनाद्वं शौच्च्यज्ञानार्थमाह -- धृत्वा पट्ट्याधारभूवंस्थयन्त्र गत्वा पृष्ठे वेधयेत् कीचकाग्रम् | कोटिदृष्टयौच्च्योर्ध्वंगा वेधजांशा दो. स्याद्धस्ता येऽपसारस्य भूमेः ॥८॥ स्ववंशान्तरगा हस्ता कोटिघ्ना बाहुभाजिताः । अथवा सूत्रम् - ४७१ षष्टयाप्ता वंशहस्ताः स्युर्हगोच्च्यकरसंयुताः ॥९॥ अथ भूमिज्ञानामावे केवलादग्रदर्शनादेव वंशोच्च्यमात्मवंशान्तरमाह-- पृष्ठे गत्वा द्विर्भुजौ ये च कोटी ते स्वे कोटि दोहृते तद्वियुत्या । दोविश्लेवाल्लब्ध माद्यस्थिते: स्याद्भूमानं प्राग्वत्ततः कौचकोच्च्यम् ॥१०॥ इदं वासनासिद्धमपि दुःसाध्यम् । अथान्तरिक्षे वस्तुद्वयं दृष्ट्वा तदन्तरज्ञानार्थं भूमेस्तदौच्च्यज्ञानार्थं चाह -- स्थत्व विद्धाऽर्थद्वयं तत्तलस्थस्तुल्योच्यं तच्चोपविश्यापसारः । दृग्वेधांशात् स्यात्ततो वस्तुमध्यं स्यादौच्च्यं त्वासीनदृष्टयौच्च्ययुक्तम् ॥११॥ अथैकमेव वस्तु दृष्टं चेत् तदा तत्सन्निहितं मध्येऽन्यद्वस्तु प्रकल्त्य मध्यभूमिज्ञानं स्यादि- त्यनुक्तमपि ज्ञायते । अथ जलपर्यन्तं कूपमध्ये वेधज्ञानमाह -- एवं स्थित्वा कूपतीरे जलस्थं स्थानद्वन्द्वं वीक्ष्य मध्यं तयोः स्यात् । अत्रौच्च्यं यच्चोर्ध्वंदृष्ट्या विहीनं कूपे वेधः स्यादतोऽन्यत्र चोह्यः ॥ १२॥ कण्ठे स्थितः कूपजलान्यकण्ठौ विद्ध्वा सहैवैत्य पुनश्च पृष्ठे । वंशौच्च्यवत् स्याज्जलकण्ठमध्यं कूपस्य तत् किन्तु दृगौच्च्यहीनम् ॥ १२॥ इति श्रीकेशव सांवत्सरात्म जगणे शदैवज्ञविरचितं सुधीरञ्जनयन्त्रम् |