सिद्धान्तशिरोमणी गोलाध्याये वा० वा० – अथ' धीयन्त्रप्रशंसार्थमाह – अथेति । सर्वत्र यन्त्रनिर्माणं यन्त्रे वेधप्रकारश्चोच्यते। अत्र करकलितयष्टिरेव यन्त्रनिर्माणम् । दत्तमूलाग्रदृष्टिरेव वेध- प्रकारः । धीमत एव करकलितयष्ट्या वंशौच्च्यादिज्ञानं संभवति नान्यस्येति धीयन्त्र- मिदमिति स्पष्टम् । अत्र सूत्रोदाहरणाद्यं भाष्ये स्पष्टम् । ४०-४१ ।। अय यष्ट्या ध्रुववेधेन पलभामाह- ४७२ यष्टयग्र मूलसंस्थं विद्ध्वा ध्रुवमग्रमूलयोलम्बौ । बाहुर्लम्बान्तरभूर्लम्बोच्छ्रायान्तरं कोटिः ॥ ४२ ॥ कोटिदशगुणिता बाहुविभक्ता पलप्रभा ज्ञेया । वा० भा० - अत्र समायां भूमौ स्थित्वा गणकेन वेधः कर्तव्यः | यष्ट्यप्रमूलसंस्थमिति । यष्टेरग्रे मूले चैकहेलया यथा ध्रुवः संलग्नो दृश्यते तथा यष्टिर्धार्या । ततस्तदग्रान्मूलाच्च लम्बनि- पातो कार्यों | भुवि लम्बनिपातयोरन्तरे यावन्त्य गुलागि तावान् भुजः । एवं लम्बौच्च्ययोरन्तरे यावन्ति तावती कोटि: । यष्टिप्रमाणं कर्णः । सर्ववेषेय्वप्ययमेव विधिज्ञेयः । ततोऽनुपातः । यद्यनेन बाहुनेतावती कोटिस्तदा द्वादशाङ्गुलेन किमिति फलं पलभा स्यात् ॥ ४२-४२३ । वां० वा० – पलभाज्ञानमाह - यद्व्यग्रमूलसंस्थमिति । अत्र लम्बोच्छ्रायान्तरं कोटि: । लम्बान्तरभूर्भुजः यष्टिरेव कर्णंः । एतद्वेधक्षेत्रा- नुसारेण लम्बज्या भुजोऽक्षज्या कोटिस्त्रिज्या कर्णं इति क्षेत्रमनुभूयते । तदुक्तम्- कोटिर्द्वादशगुणितेति ॥ ४२-४२३ । इदानीं वंशादिवेधमाह -- विद्ध्वैवं वंशतलं दृष्ट्युच्छ्रायाहतावाहोः ।। ४३ । कोट्या लब्धं ज्ञेयं स्ववंशमध्ये महीमानम् । विद्ध्वाथो वंशाग्रं भूमानं कोटिसंगुणं भक्तम् || ४४ । दोष्णा वंशोच्छ्रायो दृष्ट्युच्छ्रायेण संयुतो ज्ञेयः । १. अत्र सिद्धान्तसार्वभौमे मुनीश्वरः -- अष्टयष्टया भुवि नीर मध्ये व्योम्निस्थितं वस्तु यदेव दृश्यम् । तन्मानबोधाद्यपयुक्त बुद्धियन्त्रं प्रवक्ष्ये निखिलंकसारम् ॥ ८५ । यष्टयाग्रमूलस्थितदक्षिणैक दृष्टयाभखेटादि विलोक्य पात्यो । तद्यष्टिमूलाग्रत एव लम्बौ तदन्तरे भूप्रमितिर्भुजः स्यात् ॥ ८६ । लम्बप्रमाणान्तरमत्र कोटिर्यष्टि: श्रुतिवेंघभवं हि जात्यम् । प्रत्यक्षमस्मात्सकलस्य वेद्या युक्तानुपातास्रमिति: सुधीभिः ॥ ८॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१४
दिखावट