पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये वा० वा० – वर्षचरणज्ञानमृतुचिरपि भवतीत्याह - ऋतुचिह्नरिति । तान्य- ग्रतो वक्ष्ये यन्त्राध्यायादनन्तरमित्यर्थः । वक्ष्यमाणर्त्तुवर्णनतात्पर्यमिदम् । मधुः पलाशाग्रभवप्रसूनैग्रष्मस्तु तापाज्जलदेन वर्षाः । पद्मैः शरत्कुन्दचयैर्हिमर्त्तुज्ञेयो लवल्या शिशिरः सुधीभिः । भाभ्रमरेखाया विसदृशत्वेन दिक्पलाद्यमपि विसदृशं स्यादिति भात्रितयाद् भाभ्रमणं दूषयति — भात्रितयादिति । अस्मदुक्तरीत्या सर्वं शोभनमिति प्रत्यक्षं गोले दृश्यते । क्रान्तिपातज्ञाने स्फुटसूर्यज्ञानं तद्ज्ञाने च क्रान्तिपातज्ञानार्थमाह - छायातोऽ- ग्रातो वेति ॥ ३७-३९ । ४७० इदानीं धोयन्त्रं विवक्षुरादौ तत्प्रशंसामाह-- अथ किमु पृथुतन्त्र धमतो भूरियन्त्र : स्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः । न तदविदितमानं वस्तु यद्दृश्यमानंदिवि भुवि च जलस्थं प्रोच्यतेऽथ स्थलस्थम् ॥४०॥ अत्र प्रश्न:--- वंशस्य मूलं अविलोक्य चाग्रं तत्स्वान्तरं तस्य समुच्छ्रयं च । यो वेत्ति यष्ट्यैव करस्थयासौ धीयन्त्रवेदी' वद किं न वेत्ति ॥ ४१ । बा० भा० -- स्पष्टार्थम् ॥ ४०-४१ । ततश्च चिह्नत्रयसक्तवृत्तं यल्लिख्यते भाग्रपरिभ्रमः सः । अतोऽन्यथा बाहुखमध्यभासां न्यासाद्भवेच्छङ्कपरिभ्रमः सः॥ शङ्कोदिशां मध्यगतस्य भाग्रं रेखां न जह्यात् खलु मात्रमः सः | शङ्कभ्रमेण भ्रमतच शङ्कोश्छायाग्रमाशागणयोगचिह्नम् ॥ शि० धी० ग्र० त्रिप्र० तथा श्रीपतिः- ४४-४६ इलो० प्रदेशे । छायात्रयाग्रोद्भवमत्स्य मध्यस्पृकुसूत्रयोयंत्र युतिः याम्योत्तरा शङ्कृतलात् ककुप् सा क्रमेण सौम्येतरगोलयो: स्यात् ।। मत्स्योदरद्वयगसूत्रयुतेश्च तस्या भाग्रत्रयस्पृगिति यद्भवतीह वृत्तम् । छाया न तत्परिधिमुज्झति मध्यशङ्कोमंध्यस्य भागमिव साधुगतिः कथंचित् । शङ्कप्रमाभ्रमणमण्डलयोस्तु मध्यं मध्यप्रभा भवति दक्षिणमुत्तरं वा ॥ सि० शे० ४ अ० ४-५३ श्लो० । अत्र बापूदेवः -- वास्तवभाभ्रमरेखायास्तु शङ्कुच्छिन्नाभिधान (Conic Sections ) गणितविधाने- नावगमः सुगमः | १. अथ गणेशदैवज्ञविरचितं सुधीरञ्जनं नाम यन्त्रम् । तत्र तावद्यन्त्रनिर्माणम् - यन्त्रं कुर्याद्धातुजं दारुजं वा पट्टयाकारं दैर्घ्यंतस्त्वेकहस्तम् । दैर्घ्येऽत्राङ्कघाः षष्टिभागाः समानाः कस्मिंश्चिद्वाप्यत्र यन्त्रस्य कुक्षौ ॥ १॥