पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ कालज्ञानमाह तद्धनुराधे चरणे वर्षस्यार्क: प्रजायतेऽन्येषु । भार्धाच्च्युतः सभाधों भगणात् पतितोऽब्दचरणानाम् ।। ३७ । ऋतुचिन्हैर्ज्ञानं' स्याॠतुचिन्हान्यग्रतस्ततो वक्ष्ये । भात्रितयाद्भाश्रमणं न सदस्माद्दिक्पलाद्यं च ॥ ३८ । छाया तोऽग्रातो वा भानुः सक्रान्तिपात एव स्यात् । पातोनः स्फुटभानुः स्फुटभानूनो भवेत् पातः ।। ३९ । यन्त्राध्यायः वा० भा० --- अत्राग्रातस्तच्छू तिविहृता प्रकार्कसंगुणितेत्यादिविलोमविधिना या स्फुटार्क- बोर्ज्यानोता तस्या यद्धनुः स रविभवति । एवं वर्षस्य प्रथमचरणे। द्वितोये भार्थाच्च्युतस्तृतीये सभार्थश्चतुर्थे भगणात् पतित इति व्यस्तविधिः । वर्षचरणज्ञानमृतुचिह्नः | अत्रान्यैराचार्येर्भात्रितयाद्दिग्ज्ञानं दिग्ज्ञाने भाभ्रमरेखां चोत्पाद्य केन्द्रभाभ्रमरेखयो- यंद्याम्योत्तरमन्तरं सा मध्यच्छाया । ततः क्रान्तिज्या | विलोमविधिना तस्या रविरक्षश्चैवं वक्ष्यमाणमहा प्रश्नभङ्गार्थं यत् कृतं तदसत् । कुतः । यद्भात्रितयाद्धाभ्रमणं तदपि तावदसत् । अन्यान्यभाग्रहणादन्यथा न्यथा भाभ्रमरेखा स्यादिति निपुणेरवलोक्यम् | भाभ्रमनाशे दिक्पलादि- कमपि न घटते । अतो यष्ट्या शङ्कुत्रितयं ज्ञात्वेत्यादिना महाप्रश्नभङ्गो युक्तः । १. अध कस्यचित् पद्यम्--- अत्र किलाग्रातो रविर्ज्ञातः । योऽत्राग्रातरछायातो वा रविर्ज्ञायते स सक्रान्तिपात एव स्यात् । अतः पातोनो रविभवति । रव्यूनश्च पातो भवतीति युक्तियुक्तम् । एवं स्फुटरवेमंध्यमो मध्यमादहर्गणोऽहगंणात् कल्पगतमिति कालज्ञानम् । इति यष्टियन्त्रम् ॥ ३७–३९ । वर्षाः । • मधुः पलाशाप्रभवप्रसूनै मस्तापाज्ज पद्म: शरत् कुन्दचर्यं हिमर्तुज्ञेयो लवल्या शिशिर : सुधीभिः ॥ २. अत्र लल्ल:- ४६२ अपि च - वा० वा० ६० । छायात्रयाग्रभवयोर्मुखपुच्छरज्वोर्योगो यमस्य दिगुदग्द्यदलप्रमाग्रे 15 • यत्र ध्रुवो घनपतेदिंगसौ भवेद्वा तन्मत्स्यपुच्छ पुखरज्जुरसिद्धसिद्धौ ॥ यो मत्स्यपुच्छ्रमुखनिर्गतरज्जुयोगस्तस्मात् प्रभात्रितय चिह्नशिरोऽवगाहिं । वृत्तं लिखेन्न विजहाति हि तस्य रेखां छाया कुलस्थितिमिधामलवंशजा स्त्री | शि० धी० ग्र० त्रिप्र० २-३ इलो० । 3 अग्रेषु चिह्नानि विधाय वृत्तमियोऽवगा लिखितस्तु तेभ्यः । तिमी भवेतां मुखपुच्छसक्ते रज्जू प्रसार्यावन योर्युतिर्या ॥