पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ सिद्धान्तशिरोमणी गोलाध्याये एवं ज्ञाते शङ्कुतले पृथक् पृथक् या । या ई । एते स्वस्वयाम्यभुजाभ्यां रहिते जाते उत्तरे अग्रे या ३२ रू ६० । या ३३ रू ८४ । अनयोरग्रयोः समीकरणे छेदगमे च क्रियमाण इयं क्रियोपपद्यते ॥ ३१३-३२३ । इवानों दिग्देशकालानामज्ञाने केवलार्कदर्शनादेव सर्वमाह - यष्ट्या शङ्कुत्रितयं ज्ञात्वा वा कथ्यते सर्वम् || ३३ । आद्यन्तशङ्कुशिरसोस्तिर्यक् सूत्रं निबध्य तत्सक्ते । मध्यमशक्वग्राद्धे सूत्र भूमिं पृथड़नेये ॥ ३४ ॥ भृचिहृद्वितयोपरि सूत्र तत्रोदयास्तसूत्र' स्यात् । तत् केन्द्रान्तरमग्रा सूत्रादग्रान्तरे ततः प्राची ॥ ३५ । प्राग्वदतोऽक्षच्छायां तच्छ्रतिविहताग्र कार्कसंगुणिता । क्रान्तिज्या त्रिज्याघ्नी जिनभागज्योद्घृता दोर्ज्या ॥ ३६ । वा० भा० – त्रिज्यावृत्तं विलिण्य प्राग्वद्यष्ट्या शकुत्रितयमभीष्टे काले ज्ञात्वा प्रथम- तृतीयश क्वग्रथोरेकं तियंग्बद्ध्वा मध्यस्यशङ्करनेऽन्य सूत्रस्यैकमग्रं बद्ध्वा तत् सूत्रं तिथंकसूत्र- लग्नं यथा भवति तथा प्रथमशङ्कवभिमुखमधः कर्णगत्या त्रिज्यावृत्तपरिधि नीत्वा तत्र पूर्वभागे चिह्नं कार्यम् । ततोऽन्यत् सूत्रं तदेव वा तृतीयशङ्कवभिमुखमनेनैव प्रकारेण नीत्वा वृत्तपश्चिभागे चिह्नं कार्यम् । तयोश्चिह्नयोरुपरि गतं सूत्रमुदयास्तसूत्रं स्यात् । सूत्रकेन्द्रयोरन्तरमग्रा | उदया स्तसूत्रादग्र तुल्येऽन्तरे केन्द्रोपरि प्राच्यपरा रेखा कार्या । ततः शङ्कदयास्तसूत्रान्तरमित्यादिना पलभाज्ञानम् । शेषं स्पष्टम् । अत्र गोलंऽहोरात्रवृत्ते यथोक्तं क्षितिजसंप तयोरुदयास्तसूत्रं बद्ध्वा तस्मिन्नेवाहोरात्रवृत्ते चिह्नत्रयं कृत्वा तानि शङ्कुशिरांसि प्रकल्प्याद्यन्त चिह्न योस्तियंक्सूत्रं च निबध्य मध्यसूत्रात् तिर्यक् सूत्रसक्तमधः सूत्रं नोयमानमुदयास्तसूत्र एव लगतीत्युपपत्तिदर्शनीया । ततोऽग्रादिकपल- भाज्ञानं युक्तियुक्तम् । पलभाज्ञाने तद्देशज्ञानम् ॥ ३२३–३६ ॥ वा० वा०—यष्ट्या शङ्कत्रितयमित्याद्यपि वासना भाष्ये स्पष्टम् ॥ ३२३-३६। १. अत्र श्रीपतिः- अपमधनुषो मोर्व्या क्षुण्णा गृहत्रयशिञ्जिनी जिनलवजया शिञ्जिन्याप्ता भवेद्दिनकृद्गुणः । कृतधनुरसौ तादृम्भार्धाच्च्युतोऽथ सषड्गृहो भगणपतितः स्पष्टोऽकं: स्यात् पदेषु चतुष्र्ष्वपि ॥ सि० शे० ४ अ० ६३ श्लो० ।