पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधान्यवाह- यन्त्राध्यायः यष्ट्यग्राल्लम्बो ना ज्ञेया दृग्ज्या नृकेन्द्रयोर्मध्ये । वा० भा० नष्टद्युतेष्टेरग्रादधो यावान् लम्बस्तावांस्तस्मिन् काले शङ्कुः शङ्ककेन्द्रयोमंध्ये दृग्ज्या ज्ञेया । शङ्कुप्राच्यपरयोरन्तरं बाहुः । प्रागपराशानरान्तरं बाहुरिति वक्ष्यति ॥ ३०३ । केवल दिग्ज्ञाने सत्यक्षभामाह- उदयेऽस्ते यष्ट्यग्र प्राच्यपरामध्यमग्रा स्यात् ।। ३१ । शङ्कुदयास्तसूत्रान्तरमर्कगुणं नरोद्धृतं पलभा । ४६७ वा० भा० – उदयकालेऽस्तकाले वा यष्टिर्नष्टद्युतिध्रियमाणा सकलेव भूलग्ना स्यात् । एवं प्रारंत्रिज्यावृत्ते ज्याधंवत् स्थितम् । साग्रा ज्ञेया | ततः प्राग्वदुदयास्तसूत्र- मिष्टकाले शङ्कुश्च । शङ्कदयास्तसूत्रयोरन्तरं द्वादशगुणं शङ्कुना भक्तं पलभा स्यात् । अत्रोपपत्तिस्त्रैराशिकेन । तद्यथा । यद्यस्य शङ्कोः शङ्कदयास्तसूत्रयोरन्तरं शकुतलं भुजस्तदा द्वादशाङ्गुलस्य शङ्को: क इति । फलं विषुवती भवति ।। ३०३-३१३ । अथोद्यन्तमदृष्ट्वा भुजयोरेकान्यदिशोरन्तरमैक्यं रविक्षुण्णम् || ३२ | शकन्तरहृत् पलभा प्रागपराशानरान्तरं बाहुः । वा० भा० स्पष्टार्थम् । अत्रोपपत्तिः—यत्र देशे विषुवती ४ । तत्रोत्तरगोले प्रथमशङ्कुस्त्रिशदङ्गुलो दृष्टः । तस्य याम्यो भुजः पञ्चाङ्गुलः | अन्यश्च षट्त्रिंशदङ्ङ्गुलः | तस्य याम्यो भुजः सप्ताङ्गुल: । अत्राग्रया विना किल शङ्कुतलं न ज्ञायते । किंतु भुजाप्रयोर्यावदन्तरं शकुतलयोरपि तावदेवान्तरं भवति । तच्छकुतलं कल्पितम् २ | कस्य । शङ्कूच्छ्रयान्तरतुल्यस्य शङ्को: ६ । यद्यस्य शक्कोरिदं शङ्कुतलं तदा द्वादशाङ्गुलस्य किमिति । फलं पलभा ४ । अथवा पलभाप्रमाणं या १ । यदि द्वादशाङ्गुलस्य शङ्को: पलभा शकुतलं तवा त्रिशद- गुलस्य षट्त्रिंशदङ्गुलस्य वा किमिति १२ । या १ । ३० ॥ १२ । या १ । ३६ । शङ्क्वग्रमर्केर्गुणितं विभक्तं तल्लम्बकेन स्फुटमक्षभा स्यात् । अग्राग्रभागान्नतभागमौर्वी कार्येह खल्वङ्गुलवृत्तजाता ॥ २३ | अन्यच्च सिद्धान्तसार्वभौमे मुनीश्वरः -- अथ त्रिज्यया मण्डलं भूमिभागे समे कार्यमंशाङ्कितं तत्र केन्द्रे त्रिज्या समा यष्टिकाsर्कोन्मुखाग्रा यथा नष्टभा स्यात्तथा स्थापनीया ॥ ५४ | लम्बस्तदग्रादृजुसूत्ररूपः शङ्कर्भवेत्केन्द्रनृमूलमध्ये | हग्ज्याऽथ केन्द्र नरवन्निधेया यष्टिस्ततोऽस्याः प्रभवेत्प्रभाग्रम् ॥ ५५ ॥ वृत्तान्तस्तद्द्बाह्यतो यत्र वा तत् पश्चात्पूर्वाशाख्यसूत्रान्तरालम् । याम्यं सौम्यं भाग्रतो यष्टिमानं ज्ञातोन्मानं स्वाक्षभाघ्नी त्रिभज्या ॥ ५६ |