पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये वा० वा० - वेदा भवा इत्यनेनान्त्या साध्यते । तत्र निरक्षे सर्वदा महाशङ्क- तुल्यैव हृतिः पलांशाभावात् । लघुक्षेत्रे द्वादशाङ्गुलशङ्कतुल्यैव लघुहृतिः । ततोऽन्त्या- साधनार्थमनुपातः । यदि युज्यास्थाने त्रिज्या तदा द्वादशाङ्गुलतुल्यहृतिस्थाने का जाता निरक्षदेशे लघुक्षेत्रोत्थान्त्या | तत्राचार्येण पञ्चदशपञ्चदशांशप्रमाणेन नवत्यंश- मध्ये खण्डकषट्कमङ्गुलात्मकं सूक्ष्मप्रकारतः साधितम् । तत्र सर्वेष्वपि खण्डकेषु द्वादशैवाङ्गुलानि प्राप्तानि । व्यङ्गुलानि तु भिन्नान्येवोपलब्धानि। ततः खण्डस्थ द्वितीयखण्डस्थव्यङ्गुलेभ्यः 'संशोध्यानीत्यादिना वेदा भवा इत्यादिव्यङ्गु- लान्युक्तानि । निरक्षदेशस्थानामेतेषां व्यङ्गुलानां साक्षदेशीयकरणायानुपातः । द्वादश- तुल्ये पलकर्णे व्यङ्गुलान्येतानि तदेष्टपलकर्णे कानीति । व्यङ्गुलानि षष्टिभक्तान्यङ्गु- लानि भवन्ति । ऊर्ध्वस्थद्वादशाङ्गुलानामप्यनेनानुपातेन गुणहरनाशात् पलकर्णतुल्याङ्गुलत्वमेव भवति । क्रान्तियुज्यादिकं सायनग्रहादेवोचितम् । प्रथम- 'रूपाश्विनो विंशतिरङ्कचन्द्रा' इत्यादि खण्डकैर्जीवासाधनवदेभिरपि जीवा- साधनमुचितमिति 'तैः क्रान्तिपाता ढ्यरवेर्भुजज्या षष्ट्युद्धृताक्षश्रवणेन युक्तेत्युक्तम् । द्वादशशङ्कप्रमाणेनेदं तदा त्रिंशच्छङ्कप्रमाणेन किमिति गुणहरौ त्रिभिरपवर्त्य ‘दिघ्नी कृताप्ता भवतीह यष्टिरित्युक्तम् । अत्र यत्खामाङ्गुलविस्तृतत्वमुक्तं तत् सर्वदेशभि प्रायेण । सर्वं वासनाभाष्ये स्पष्टम् ||२३-२४ इदानों यष्टिप्रयोजनमाह - ४६४ धार्थं तथा फलकयन्त्रमिदं यथैव तत्पार्श्वयोगति तुल्यमिनस्य तेजः । छायाक्षजा स्पृशति तत्परिधौ यमंशं तत्रांश के मतिमता तरणिः प्रकल्प्यः ॥ २५ । अक्षप्रोतां रविलवगतां पट्टिकां न्यस्य तस्माद्- यष्टेरग्रादुपरि फलकेऽधव गोलक्रमेण । यत्नाद्देयश्चरदलगुणस्तत्र या ज्या तयात्र छिन्ने वृत्ते तलगघटिकाः स्युर्नता लम्बकान्ताः ॥ २६ ॥ वा० भा० - तद्यन्त्रमाथा रेऽवलम्बमानं तथा धार्य यथा यन्त्रोभयपाइयोस्तुल्यकालमेवाकंतेजो लगति । अर्काभिमुखनेमिकं दृङ् मण्डलाकारमित्यर्थः । तथा धृते सुषिरे प्रोतस्पाक्षस्य छाया वृत्त- परिवौ यस्मिन्नशे लगति तत्रांशेऽर्क: कल्प्यः । अथाक्षप्रोतव पट्टिका रविचिह्न स्थाप्या. तथा घृतायां पट्टकायां यत् पूर्वं कृतं यष्टिचिह्नं तस्मादुपर्युत्तरगोले दक्षिणगोले तु तदधश्चरज्यामिता- न्यङ्गुलानि फलके गणयित्वा तत्र चिह्नं कार्यम् | चिह्नस्थाने या ज्यरेखा सा वृत्ते यत्र लग्ना तस्मादधो वृत्ते लम्बरेखावधेर्यावत्यो घटिकास्तावत्यस्तत्काले नता ज्ञेया: । तद्रविचिह्न यदि रेखयोमंध्ये स्थितं तदा तदनुसारिणीं तत्रान्यां रेखां प्रकल्प्य नाड्यो ज्ञेयाः । १. संशोध्यानित्यादिना, इति ख पु० । २. पाताव्यरवे इति व पु० ।