पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः ४६३ बा० भा० - ४ | ११|१७|१८|१३|५ एतानि खण्डकानि निरक्षदेशे पलकर्णगुणानि द्वादशभक्कानि स्वदेशे भवन्ति । पञ्चदशभिः पञ्चदशभिर्भागैरेकैकं लभ्यते । एवं तैः खण्डकैः सायनांशाक दिभुजज्या साध्या | सा षष्टिभक्का पलकर्णंयुता ततो दशगुणा चतुर्भक्ताङ्गुलात्मिका यष्टिर्भवति । सा यष्टिः पट्टिकायां सुषिर द्देया | यष्टिमितान्यङ्गुलानि पट्टिकायां रन्ध्रादारभ्य गणयित्वाग्रे चिह्नं कार्यमित्यर्थः । टकाले अत्रोपपत्ति: – 'अत्र सुषिरोपरि या ज्यारेखा सा मध्यरेखेति ज्ञातव्या । इह किल दृङ्म डलाकारे धृते यन्त्रे कीलच्छाया यत्र परिधौ लगति तन्मध्यरेखयोरन्तरे य उन्नतभा- गास्तेषां ज्योन्नतज्या | मध्यरेखाछाययोमंध्ये यावन्त्यङ्गुलानि तावत्युन्नतज्येत्यर्थः । संवे- । स एव पलकर्णगुणो द्वादशहृत इष्टहृति: स्यात् । सा त्रिज्यागुणा युज्यया भक्तष्टान्त्यका स्यात् । अथ त्रिज्योत्तरगोले चरज्यया युता दक्षिणे होना सत्यन्त्या स्यात् । अन्त्याया इष्टान्त्यकोनाया यच्छेषं सा नतकालस्योत्क्रमज्या स्यात् । अतस्तस्या उत्क्रमचापे कृते नतकालो ज्ञायत इति किल गोले कालज्ञानवासना | इदं धूलीकर्म यन्त्रादेवापसंहतुं यष्टिः कृता । तत्र तावद्राश्यर्थे भुजे ज्या ३४१८ | राशौ ३३६६ | साधे राशौ ३२६२ | राशिद्वये ३२१८ । साघराशिद्वये ३१६१ | राशिये ३१४१ | यदा किल द्वादशाङ्गुलशङ्कुस्त्रिज्यया गुण्यत आभिर्द्यज्याभिः पृथक् पृथग्विभज्यते तावत् सर्वत्र द्वादशाङ्गुलानि लभ्यन्ते । अधो वेवा इत्यादीनि व्यङ्गुलानि । उपरितनान् द्वादश परित्यज्यैषामेवान्योऽनुपातः । एतान्येव स्वदेशे पलकर्णगुणानि द्वादशहतानि पञ्चदशभागलभ्यानि खण्डकानि कल्पितानि । तैः खण्डकं: सायनांशा कंस्य भुजज्या व्यङ्गुलात्मिका भवति । अतः षष्टयुद्धृता । इयमक्षकर्णेऽतो योज्या | यतो य उपरि त्यक्ता द्वावंश ते यावदक्षकर्णेन गुण्यन्ते द्वारशभिविभज्यन्ते तावदक्षकर्ण एव लभ्यते । एवं द्वादशाङ्गुलस्य शङ्कोरिष्टान्त्या जाता । इयं धूलोकर्मोपसंहारार्थं त्रिशबङ्गुलस्य शङ्कोः परिणामिता| तन्त्रानुपात: । यदि द्वादशाङ्गुलस्येयं तदा त्रिंशदङ्गुलस्य केति । अत्र गुणकभाजको त्रिभिरपवर्त्य गुणकस्थाने दश १० भागहार चत्वार : ४ कृताः । एवमनुपातेन शङ्कोरिष्टान्त्या यष्टिसंज्ञा भवतीत्यर्थः । यदि त्रिशच्छङ्कोर्यष्टिमितेष्टान्त्या तदेष्टशङ्कोः कियतीति । एवमिष्टशङ्कु- यंष्टया गुर्ष्यास्त्रशता भाज्य: । फलमिष्टान्त्येति स्थितम् । तदर्थं सा यष्टिः पट्टिकायां दत्ता तबग्रे चिह्नं च कृतम् ||२३-२४॥ १. अत्र गणेशदैवज्ञः-- व्यक्षेऽर्काङ्गुलशङ्कजाहृतिरिनास्त्रिज्याहता युज्यया- सान्त्या स्यादिति भार्धंजाः षडमुतोऽर्कान्प्रोझ्य शेषाण्यधः । प्रोझ्याब्ध्यादिकखण्डषट्कमिनहृत् स्वाक्षश्रवोघ्नं पुरे स्वे स्यादुत्क्रमतोऽक्षक र्णयुगिनास्त्यक्ता निरक्षे यतः ॥ शङ्की द्वादश केऽन्तिकेयमुदिता यन्त्रोत्रतांशज्यका शङ्को कि यदि यन्त्रजोन्नतगुणे त्रिशच्छु तिस्तंत्र किम् | यष्टि: स्यात् फलमत्र मध्यगुणयष्टघग्रान्तरन्त्या ततो यष्टयग्रादधरोवंदत्तचरजज्यास्पृग्द्यवृत्ते नतम् ||