पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये वा० वा०- - 'कर्त्तव्यं चतुरस्रकमिति वृत्तदशकं वासनाभाष्ये स्पष्टोपपत्तिकम् । चरपलानि षड्गुणितानि चरासवस्तेषां तावन्मितैव जीवा स्वीकृता । परमियं व्यासार्द्ध ३४३८ त्रिज्यावृत्तं जाता । फलकान्तर्गतवृत्तं त्रिंशद्व्यासार्द्धमतोऽनुपातः । अस्मिन् व्यासार्द्धे ३४३८ स्थूलचरपलानि षड्गुणानि चेज्जीवारूपाणि तदा त्रिशद्व्यासार्द्धे कानीति । अत्र गुणघातो गुण: खाष्टचन्द्रतुल्यः । अनेनैव गुणहरावपवर्त्य गुणस्थाने रूपम् । हरस्थाने एकोनविंशतिः । अत उक्तं 'यत्खण्डकै: स्थूलचरं पलाद्यं तद्गो- कुहृत्स्याच्चरशिञ्जिनीति ॥ १८-२२। इदानीं यष्टिसाधनमाह ४६२ - वेदा ४ भवाः ११ शैलभुवो १७ धृतिश्च १८ विश्वे १३ च बाणा: ५ पलकर्णनिघ्नाः | अर्कोद्धृताः क्रमशः स्वदेशे राश्यलभ्यानि हि खण्डकानि ॥ २३ ।

तैः क्रान्तिपाताढ्य र वेर्भुजज्या षष्टयुद्धताक्षश्रवणेन युक्ता । दिग्घ्नी कृताप्ता भवतीह यष्टिः सा पट्टिकायां सुषिरात् देया ॥ २४ ॥ 3 १. अत्र सिद्धान्तसार्वभौमे मुनीश्वर:-- आधार: कर्त्तव्यं चतुरस्रकं सुफलकं षड्वर्गसंख्याङ्गुलम्, विस्तारेऽस्य रसाङ्गकाङ्गुलमिता यामस्य नेम्यर्धके । इलथशृङ्खलादिघटितो रेखा च लम्बोपमा, स्वाधारात् प्रथमत्रिभागविगमेऽस्याः सात्र दीर्घा पुनः ॥ २६ ॥ रेखा युतावत्र विदा विधेयं छिद्र ततोऽर्काङ्गुलकैः सुवृत्तम् । केन्द्र शलाका सरलाक्षसंज्ञा क्षेप्या बहिः स्याच्च यथार्थमाना ||२७|| स्थूलसरन्ध्र काग्रा रचिता पट्टी कृशा प्रोता । देवाङ्गुलाक्षसंज्ञे कार्या शिथिला यथा भ्रमति ॥२८॥ वृत्त व भांश: ३६० परिधौ तदङ्काः षष्टया घटीनामथ चाक्षकर्ण । त्रिज्या गुण: सूर्यदिनज्ययाप्तो यष्टिर्भवेत्तां सुषिरात्प्रदत्ता ||२६|| भूगो० २६-२९ श्लो० २. यत इति ख पु० । ३. अत्र केशवदैवज्ञः वेदंर्भव: सप्तकुभिगंजाब्जैविश्वः शरैः सायनसूर्यदोर्ज्या । राश्य जैर्वाऽष्टगजाश्वि २८८ भक्ता साधंद्वया २१३० ढ्या पलकर्णनिघ्नी |