पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः ४६१ आधारः श्लथशृङ्खलादिघटितः कार्या च रेखा तत- स्त्वाधारादवलम्ब सूत्रसदृशी सा लम्बरेखोच्यते ।। १८ । लम्बं नवत्य ९० ङ्गुलकैर्विभज्य प्रत्यङ्गुलं तिर्यगतः प्रसार्य । सूत्राणि तत्रायतसूक्ष्मरेखा जीवाभिधानाः सुधिया विधेयाः ||१९| आधारतोऽधः खगुणा ३० ङ्गुलेषु ज्यालम्बयोगे सुषिरं च सूक्ष्मम् । इष्टप्रमाणा सुषिरे शलाका क्षेप्याक्षसंज्ञा खलु सा प्रकल्प्या ||२०| षष्टयङ्गुलव्यासमतश्च रन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्कयम् । षष्ट्या घटीनां भगणांश ३६० कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः ॥ २१ ॥ अग्रे सरन्धा तनुपट्टिकैका षष्ट्यङ्गुला दीर्घतया तथाङ्कया । वा० भा -- अत्रादौ धातुमयं श्रीपर्ष्यादिदारुमयं वा फलकं चतुरस्रं इलक्ष्णं समं कर्तव्यम् । तच्च नवत्यङ्गुलविस्तारं द्विगुण विस्तारवैयंम् । तत्समीपे देध्यंमध्ये तस्याधारः शिथिल : शृङ्खलादिः कार्य: । आधारे धृतं यन्त्रं गथा लम्बमानं स्यात् तथा धृते फलक आधारा- दधः सूत्रमवलम्बरेखा कार्या । सा च लम्बसंज्ञा । तं लम्बं नवतिभागं कृत्वा भागे भागे तिर्य- ग्रेखा दीर्घा कार्या। तिर्यक्त्वं तु लम्बभवान्मत्स्यात् । सा रेखा ज्यासंज्ञा ज्ञेया। आधा- रादर्धास्त्रशदङ्गुलान्तरे या ज्या तस्या लम्बस्य च संपाते सुषिरम् । तत्रेष्टप्रमाणा शलाका क्षेप्या। साक्षसंज्ञा । तस्माद्रन्ध्रात् त्रिंशदङ्गुलेन कर्कटकेन वृत्तरेखा कार्या | सा षष्टि- घटिकाभिभंगणांशकै खषडग्निसख्यैः ३६० प्रत्यंशं दशभिः पानीयपलेश्चाङ्कया । अथ ताम्रादिमयी वंशशलाकामयी वा पट्टिका षष्ट्यङ्गुला ६० दीर्घतया तैरेव फलकाङ्गुलेस्त- थैवाङ्किता कार्या । सा पट्टिकार्धाङ्गुलविस्तृता । एकस्मिन्नग्रेऽङ्गुलविस्तृता कुठाराकारा कार्या । तत्र विस्तारमध्ये छिद्रं कार्यम् । अक्षप्रोतायाः पट्टिकाया लम्बोपरि घृताया एकं पाश्वं यथा लम्बरेखां न जहाति तथा सरन्ध्रा कार्येत्यर्थः ॥ १८-२१ ॥ ६० इदानीं यन्त्रोपकरणमाह - यत् खण्डकै स्थूलचरं पलाद्यं तद्गोकु १९ हृत् स्याच्चरशिजिनीह ॥ २२ ॥ वा० भा० यत् खण्डकोत्थं चराधं पानीयपलात्मकं तस्यैकोनविंशति १९ भागोऽत्र चरज्या ज्ञेया । तानि चरखण्डानि | दिङ्नागसत्र्यंशगुणं १० |८|३० । विनिघ्नो पलप्रभा स्युश्चरखण्डका-ोति । तानि यथा साधंचतुरङ्गुले ४ | ३० पलप्रभादेशे ४५ । ३६ । १५ । १ अत्रोपपत्तिः– खण्डकैश्चरसाधने कथितैव । तच्चरं रूपतश्चरज्यारूपमेवागच्छति । तच्च पानीयपलात्मकम् । अनस्तत् षड्गुणितमस्वात्मकं स्यात् । ' (स्वल्पत्वादस्य ज्या तावत्येव भवति ।) ततोऽनुपात: । यदि त्रिज्याव्यासार्थ एतावती चरज्या तदा त्रिशद्द्यासार्थे कियतीति । अत्र त्रिंशच्चरज्याया गुणक स्त्रिज्या हरः । अतः षड्भिस्त्रिशता च त्रिज्यापवर्तने कृते जात एकोन- विशतिर्हर: १९ । रूपं १ गुणः | फलमत्र यन्त्रे चरज्येत्युपपन्नम् ॥ २१३-२२॥ १. अत्र बापू देव: – स्वत्पत्वादिति प्रभृति भवतीत्यन्तं केनचित् प्रक्षिप्तमिति प्रतिभाति ।