पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये वलययन्त्र-चूडायन्त्र-मुद्रिकायन्त्र- त्रिकोणयन्त्र - चन्द्रार्द्धयन्त्र-कर्त्तरीयन्त्र-कषाल- यन्त्र-चिन्तामणियन्त्र-भूजयन्त्र - कपालयन्त्र-खड्गशरादियन्त्राद्यानि चक्रयन्त्रप्रकृतिका न्येवेत्याचायैर्ग्रन्थविस्तरभयान्नोक्तानि ॥१४३-१५॥ ४६० अथ फलकयन्त्रार्थमाह - दृङ्मण्डलेऽत्र स्फुटकाल उक्तः सुखेन नान्यैर्यतितं मयातः । सद्गोलयुक्तेर्गणितस्य सारं स्पष्टं प्रवक्ष्ये फलंकाख्ययन्त्रम् ।। १६ । वा० भा०— स्पष्टार्थम् ।। १६ । इदानीमभीष्टदेवतानमस्कारपूर्वकमाह -- नित्यं जाड्यतमोहरं सुमनसामुल्लासनं सप्रभं चाक्लेशं समयावबोधनविधौ प्रोद्धोधितज्योतिषम् । सेव्यं मण्डलमध्यगं सुकृतिभिर्यत्र स्फुटं वच्म्यहं नत्वैतद्गुणमेव देवममलं श्रीभास्करं भास्करः ।। १७ । वा० भा० - वच्मि कथयामि । किम् | यन्त्रम् । किंविशिष्टम् | स्फुटमव्यभिचारि । कः । कर्ताहं भास्करः । किं कृत्वा । नत्वा प्रणिपत्य । कम् | भास्करं सूर्यम्। किंविशिष्टम् । मण्डलमध्यगं सूक्ष्मरूपावस्थानम् । पुनः किविशिष्ट मिति प्रतिविशेषणं सम्बध्यते । नित्यम- विनाशिनम् । तथा जड्यतमोहरं शैत्यतमोहरम् । तथा सुमनसां कमलादीनामुल्लासनम् । तथा । सप्रभं सदीप्तिकम् । तथा अक्लेशं निरायासम् । क्व समयावबोधनविधौ काल- ज्ञानविधाने। प्रोद्बोधितज्योतिषमुल्लासितातारकम् । यदेतत् तारकाणां तेजस्तद्रवितेजः संजनितमेवेत्यर्थः । तथा सेव्यमुपास्यम् कैः । सुकृतिभिः पुण्यकृद्भिः । अर्थतान्येव विशेषणानि यन्त्रे व्याख्यायन्ते । किं विशिष्टं यन्त्रम् | जाडघतमोहरम् । जाड्यं मौढ्यं तदेव तमो हरतीति जाडयतमोहरम् । कदा । नित्यं प्रत्यहम् । तथा सुमनसां विदुषामुल्लासनम् । तथा सप्रभं छायासहितम् । तथा अक्लेशं समयावबोधनविधौ । अत्र सुखेन कालज्ञानं भवतोत्यर्थः । तथा प्रोद्बोधितज्योतिषमुज्ज्वलीकृतज्योतिश्शास्त्रम् । तथा सुकृतिभिः सुगणकैः सेव्यम् । तथा मण्डलमध्यगम् । मण्डलं मध्यगं यस्येति मण्डलमध्यगमन्त- लिखितवृत्तमित्यर्थः । तथामलमिति ।। १७ । वा० वा० – अथ चक्रयन्त्र प्रकृतिकमपि यन्त्रान्तरेभ्यो विशिष्टं फलकयन्त्रप्रति- पादनं प्रतिजानीते । सगोलयुक्तेरिति । यन्त्रसूर्यपरश्लेषोक्तिविशेषेण मङ्गलाचरणपूर्वकं यन्त्रप्रतिपादनं प्रवृत्त्यर्थं प्रतिजानीते – नित्यमिति । वासनाभाष्ये स्पष्टम् ॥१६-१७॥ इदानीं यन्त्रलक्षणमाह- कर्तव्यं चतुरस्रकं सुफलकं खाङ्का ९० झुलैर्विस्तृतं विस्ताराद्विगुणा १८० यतं सुगणकेनायाममध्ये तथा । -