सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः ४६५ अत्रोपपत्तिः— अत्रोत्तरगोले सुषिरादुपरि दक्षिणे तदधवरज्यामितान्यङ्गुलानि दवा तबग्रे चिह्नं कार्यम् । तदन्त्याग्रं ज्ञेयम् । एवं वृत्तस्याधो व्यासाधं चरज्यया युतोनं कृतं भवति । अतः सान्त्या | अथ वृत्तपरिधौ यत्र छाया लग्ना तन्मध्यरेखयोरन्तरं किल शङ्कुः । छायोपरि पट्टिकायां न्यस्तायां यत्र यष्टिचिन्हं तन्मध्यरेखयोरन्तर मिष्टान्त्या | यदि त्रिज्या शङकुतुल्यो विप्रकर्षस्तदा यष्टयग्रे कियानित्येवं त्रैराशिकं कृतं भवति । सा युदलेऽन्यायाः शोध्या । अन्त्याग्रं तु चरज्यया मध्यज्याया उत्तरगोल उपरि दक्षिणेऽधो बर्तते । अतो यष्टघग्रादुपयंधश्वरज्या दत्ता । तबग्रे या ज्यारेखा तयावच्छिन्नेऽधोवृत्तखण्डे बाणरूपमन्त्याया अवशेषं भवति । अतस्तदुत्क्रमज्यायाश्चापं नतघटिका भवन्ति । तस्या ज्यारेखायाः सकाशाल्लम्बरेखावधि नसघटिका वृत्ते विगणम्य प्राह्या इत्यर्थः ॥ २५-२६ | एवं छाया दर्शन कालज्ञानमुक्त्वेदानी मेतावत्यभोष्टे काले नते क्व छाया लगिष्यती- त्येतदर्थमाह - लम्बाद्देया विनतघटिकास्तज्ज्यकातश्चरज्या व्यस्ता देया भवति च तथा यापरा तत्र मौर्वी । धार्या पट्टी स्पृशति हि यथा तज्ज्यकां यष्टिचिह्नं पट्टीस्थाने निपतति तदाक्षस्य नूनं प्रभास्य ॥ २७ । वा० भा० – अधस्तनाल्लम्बवृत्तसंपातादूर्ध्वं वृत्ते नतघटिका गण्या: । तदने या ज्यारेखा तस्या अध उत्तरगोले दक्षिणे तु तदुपरि फलके चरज्यामितान्यगुलानि गणयित्वाग्रे चिह्नं कार्यम् । तत्र या ज्यारेखा तस्यां रेखायां पट्टोस्थितयष्टिचिह्नं यथा लगति तथाक्षप्रोतैव सा. पट्टी धार्या पट्टीस्थाने तस्मिन् कालेऽक्षस्य छाया पतिष्यतीति ज्ञेयम् । अत्रोपपतिः— कथितप्रकारवपरीत्येन । यदस्य यन्त्रस्य नवत्यङ्गुल विस्तारस्त द्विगुणं दैर्ध्यमुक्तं तत् सर्वदेशाभिप्रायेण । अथवा यावदेव स्वदेश उपयोगि तावदेव बुद्धिमता कार्यम् । तद्यथा । वृत्तमध्यरन्ध्रादुपरि परमचरज्या- मिता रेखाचश्चात्रिंशत् । एवं षट्चत्वारिंश ४६ दगुलानि विस्तारे | परमयष्टिमितान्यङ्गुलानि द्विगुणानि षट्सप्ततिर्वैर्ध्य ७६ । एतावता कुरुक्षेत्रपर्यन्तं यावत् कालज्ञानं स्यात् ॥ २७ ॥ इति फलकयन्त्रम् | अथ यष्टियन्त्रमाह- त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र | दत्त्वाग्रां प्राक् पश्चाद्दुज्यावृत्तं च तन्मध्ये ॥ २८ | तत्परिधौ षष्ट्यङ्गं यष्टिर्नष्टतिस्ततः केन्द्रे । त्रिज्याङ्गुला निधेया यष्ट्यग्राग्रान्तरं यावत् ॥ २९ । तावत्या मौर्व्या यद्वितीयवृत्ते धनुर्भवेत् तत्र । दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणैवम् ।। ३० । सि० - ५९