पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये यन्त्रराजादियन्त्रैर्नक्षत्रवेधेन यद्रात्रिगतकालज्ञानमुक्तं तत्पठितनक्षत्रछाया- धिकारस्य नक्षत्रमध्यास्तोदयलग्नज्ञानतः सुखेन भवत्येवेति चक्रादियन्त्रदिनगतकाला- वयवज्ञानमुक्तम् । अत एवाधिकारारम्भे दिनगतकालावयवा इत्युक्तम् ॥ ११-१४३ । अथ चापं तुयंगोलं चाह - दलीकृतं चक्रमुशन्ति चापं कोदण्डखण्डं खलु तुर्थगोलम् ।। १५ । वा० भा०— स्पष्टम् । अत्र यन्त्रेषु गोलो गोल एव । नाडीवलयं विषुववृत्तम् । तयोघंटिकाज्ञाने गोल- युक्तिरेव वासना । सम्यग्ध्रुवाभिमुखयष्टिके गोले धृते यथोक्ता: स्वत एव घटिका ज्ञायन्त इत्यर्थः । यत्तु नाडीवलयं चक्रं कृत्वा यष्ट्यां प्रोतं तत् षड्वर्गाङ्कनार्थंमेव । यत्तु चक्रं तद्दु- ङ्मण्डलम् । तत्र नतोन्नतांशज्ञानमेव गोलयुक्त्या भवति । दृङ्मण्डले क्षितिजादुपरि येर्भाग रविर्भवति तैरेव पश्चिम क्षितिजावधः कोलकच्छाया लगतीत्यर्थः । ग्रहवेघे यदक्षेपधिष्ण्यद्वयं नेमिस्थं कृत्वा यन्त्रं घृतं तत् क्रान्तिवृत्ताकारावस्थानार्थम् । अतस्तत्रापि गोलयुक्तिरेव वासना । इति चापतुयें ॥ १४३-१५ । वा० वा० – चापतुर्ययन्त्रे' वदति दलीकृतं चक्रमिति | रामेण सम्यगुक्तमिदम् । ४५८ १. अत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्तः - अङ्कितमंशनवत्या धनुषोऽधं तुयंगोलकं यन्त्रम् । घटिकानतोन्नतांशग्रहान्तराद्यं धनु ब्राह्मस्फुटसिद्धान्ते-- घटिका स्वशकुमार्गः पृथग्गतैलंम्बभू समज्यार्धात् । साशीतिशतांशाडू सिद्धान्तसार्वभौमे -- चक्रस्याधं धनुर्यन्त्रम् ॥ १० ॥ तथा च सिद्धान्तसुन्दरे -- ॥१७॥ २२ अ० १० श्लो० । अथ प्रवक्ष्ये निजकल्पितं तद् वृत्तार्धंरूपं धनुराख्ययन्त्रम् । खाष्टेन्दुभागाः परिधौ शरोऽस्य पूर्वापराज्योत्तरदक्षिणा दिक् ॥ ७६ ॥ अग्रालवैरात्मदिशीषुजाग्रादस्तोदयौ तत्परिधौ विचिन्त्यौ । स्वाहदलान्तर्गत कल्पितैकादितुङ्गनाडीषुभुजो विधेयः ॥ ७७ ॥ अभीष्टशङ्कु गणितागतो यः पलप्रमानोऽर्क १२हृतो यमांशम् । फलं तु भिन्नैकदिशा वियुक्तं युक्तं क्रमेणाग्रकया स्वदिक् सः ।। ७८ ।। चक्रं चक्रलवाङ्कितं च परिधौ सच्छछृङ्खलाघारकं, रेखातिर्यंगधोऽर्द्धगात्र च युतौ कीले शलाकां न्यसेत् । तुर्यांशेन विधाय तुर्यरचनां सूर्यो मुखेऽस्मिन् धृते छाया कीलमवा प्रयाति परिधि तत्रोन्नतांशाः कुजात् ॥ २० ॥