पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्याय ४५७ दृश्यते । मत्स्यस्तु सम्पूर्णहोरात्रमानेनैकवारं भ्रमति । त्रयोदशतारकासु स्थूले समसूत्रगे ये तारके ते ध्रुवमुखपुच्छतारकत्वेन प्रसिद्धे । मुख्यध्रुवस्य मुखतारकया भागत्रयमन्तरं पुच्छतारकया त्रयोदशांशतुल्यम् । मुखपुच्छतारकयोरन्तरं षोडश- भागात्मकम् । पुच्छमुखतारे यदा पूर्वदिग्विभागे तदा सायनभरणीध्रुवकस्थानं तत्सषड्भस्थानं च सदा सर्वत्र क्षितिजे लगतीति नियमव्यञ्जकमुपलभ्य ध्रुवभ्रमयन्त्रं कृतम् । ताम्रादिधातुमयमायतमिष्टं भवति । केन्द्राद्यन्त्रविस्तृतिव्यासं प्रथमवृत्तं तदन्तः सप्तवृत्तानि केन्द्रादिष्टव्यासाद्धैः सम्पादनीयानि । यन्त्रं चतुर्दिगङ्कं कृतपूर्वापरयाम्योत्तररेखञ्च कार्यम् । ऊर्ध्वरेखाप्रथमवृत्त- सम्पातादीषदुपरि दोर्घं पूर्वापरचिह्नं तथा कार्यं यथा ध्रुवमुखपुच्छतारके युगपद्वेध- रन्ध्रान्तर्भवेतामेवं धृते यन्त्रे प्राक् चञ्च्चग्रलग्नं सायनलग्नं निरन्तरं स्यात् । प्रथमवृत्तान्तराले ऊर्ध्वरेखात आकृतिनाडिकातो नाडिका लेख्या: । द्वितीयवृत्तान्तराले भगणांशास्तृतीये निरक्षोदयवशेन कृतत्रिंशदंशाः निरक्षोदया लेख्या: । षष्ठे स्वीयो- दयवशेन कृतत्रिंशदंशा द्वादशराशयो लेख्या: । चतुर्थे निरक्षोदयराशिनामानि | पञ्चमे कृताय नहक्कर्मका: सायना नक्षत्रध्रुवकाः । सप्तमे स्वोदयनामानि तन्निकटे कृताक्षहक्कर्मका ध्रुवका लेख्या: । तद्यन्त्रमध्ये समान्तरचञ्चुचतुष्टयं दिक्चतुष्टय- सूत्रलग्नमिष्टव्यासं कार्यम् । चञ्चुत्रयदैर्घ्यमेवं सूत्र्यग्रं कार्यम् । प्राकुचञ्च्वकाग्रं निजभोदयाप्तं मध्यनिरक्षे त्वपरं घटीषु स्यात् । चतुर्थचञ्चुरिष्टप्रमाणः स लम्बः कार्यः । एवं भावचतुष्टयज्ञानम् । प्राक्चञ्चौ सायनसषड्भरवौ लापिते तदपरयुतनाडी- चिह्नतो वेधकालीनापरचञ्चुनाडीचिह्नं यावद्रात्रिगतघटिकाः भवन्ति । प्रकृतमनुसरामः । अत्र यन्त्राद्वेधेन ये उन्नतांशास्ते तु भूपृष्ठस्थक्षितिजा- दूर्ध्वमागता । अपेक्षिताः कालादिज्ञानाथं भूगर्भस्थक्षितिजादूर्ध्वम् । तेन - 'स्वभुक्तितिथ्यंशविवर्जितोना महान् लघुः खाग्निकृतांशहीनः' । इति स्फुटशङ्कसाधनवैपरीत्यादुन्नतांशाः साध्याः । अन्यथा कालादिसाधनं सान्तरं स्यात् । सर्वस्य ग्रहगणितजातस्य भूगर्भकेन्द्रमुररीकृत्यैव प्रवृत्तत्वात् । यन्त्रराजाख्यमिदं यन्त्रं देशभेदात् कालभेदाच्च विसदृशनिर्माणमिति भास्करा- चार्यैर्नोक्तम् । अक्षांशवशेनोन्नतांशवलयविसदृशत्वमयनांशवशेन भपत्रे भचञ्चुस्थापन - विसदृशत्वमिति च यन्त्रराजविसहशत्वमेव सिद्धम् । देशकालाविसदृशगोलयन्त्र- प्रतिपादनेन यन्त्र राजप्रतिपादनचारितार्थ्यात्तन्नोक्त मिति वा । तस्माद्देशकालाविसदृशं यच्चक्रयन्त्रं तदेवाचार्यैरुक्तम् । 'पित्र्यर्क्षपुष्पान्तिमवारुणानामित्यनेनाकाशस्थक्रान्ति वृत्तानुकारि चक्रयन्त्रं कारितम् ।' नेमिस्थदृष्ट्येति स्पष्टग्रहज्ञानं कृतम् | यन्त्रराजादिछाया यन्त्रेभ्यः सायनग्रहा एवायान्ति । अमुष्माच्चक्रयन्त्रादाकाशस्थरेवतीयोगतारकतो ग्रहो निरयन एव भवति । अत्रैकाद्युन्नतांशानां दिनार्धोन्नतांशावधिकानां स्वस्वदेशीयेष्टदिनार्द्धवशेन घटिका आनीय पत्रेषु लेख्या: । तादृशपत्राणि पलांशादेकादेको नपञ्चाशत्पलांश- विषयावधिमनुष्यप्रचारं यावत्कार्याणि । महाराष्ट्रस्तानि भागपत्राणीति व्यवह्रियन्ते । सि०-५८