पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये सूर्यो यस्मिन् राश्याद्यवयवे स प्रदेशोऽत्र यन्त्रे पूर्वरेखायां यत्र लगति तच्चि- ह्रस्य मेषवृत्तस्य पूर्वरेखायां यदन्तरं तदुन्मण्डले क्रान्तिज्या भवति । सा मेषवृत्तान्ता- दुबहिश्चेत्तदा दक्षिणाऽन्यथा सौम्या भवति । एवं स एव सूर्यराश्याद्यवयवः क्षितिजे यत्र लगति तस्य मेषवृत्तपूर्वक्षितिजसम्पातस्य क्षितिजे यदन्तरं साग्रा भवति तज्ज्या कार्या । सूर्याधिष्ठितराश्याद्यवयवो मेरुचिह्नात् समन्ताद्येन मार्गेण वृत्तरूपेण भ्रमति तत्तदा धुरात्रवृत्तं मस्यादिना सम्पादनीयम् । ४५४ अस्मिन् वृत्ते उन्मण्डलक्ष्मावलयान्तरं यावत्तस्य ज्या कुज्या भवति । कुज्या भुजः । क्रान्तिज्या कोटिः । अग्रा कर्णः । एवं पश्चिमक्षितिजेऽपि । एवमग्राग्रयोनिंबद्धसूत्रमुदयास्तसूत्रं स्यात् । उत्तरगोले सूर्याधिष्ठितराश्यवयवो यत्र निरक्षभूजे लगति तस्माद्भाराढ्यं सूत्रं लम्बरूपं यावत्क्षितिजपर्यन्तं तावानुद्- वृत्तशङ्कः । अनेनोन्मण्डलशङ्कुना खण्डद्वयमग्रायाः सम्पादितमादिखण्डमग्राखण्डं चेति। उद्वृत्तना कोटिः । अग्राग्रखण्डं भुजः । कुज्या कर्णः । उन्मण्डलशङ्कुर्भुजः । अग्रादि- खण्डं कोटि: । क्रान्तिज्याकर्ण: । 1 सूर्यो यस्मिन् द्युरात्रवृत्तविभागे तस्माल्लम्बसूत्रं क्षितिजे यत्र पतति तच्चिह्नस्य तथाग्राग्रस्य यदन्तरं तच्छङ्कृतलं तस्मिन् काले । शङ्कतलं भुजः । उन्नतलवज्या सशङ्कः कोटिः । क्षितिजात् सूर्याधिष्ठितद्युरात्रवृत्तविभागं यावदुन्नतकालज्या तिर्यगिष्ट- हृतिसंज्ञा द्यरात्रवृत्ते कर्णः । अक्षपत्रे याम्योत्तररेखायां यत्र नवत्युन्नतांशकेन्द्रं तत्स्वीयखमध्यस्थानम् । स्वीयखमध्यस्थानात् क्षितिजमेषवृत्तसम्पातावधि रेखे नेये तत्सममण्डलार्द्धं स्यात् । तत्सममण्डलस्य पूर्वकृतद्युरात्रवृत्तस्य च यः सम्पांतस्तत्रस्थे रवौ समशङ्कः स्यात् । क्षितिजे द्युरात्रवृत्तसममण्डलसम्पाते च रवी लापिते द्विस्थानसंलग्नमृगास्यमध्ये कालो भवति । अद्य सूर्योदयादाभिर्घटीभिः सममण्डलाको भविष्यति । तत्र पूर्वापरैव छाया । महानुपयोगोऽस्या दिक्साधने । समंशङ्करयमुत्तरगोले स्वात्पलात् स्वल्पेऽपमे प्रत्यक्षमुत्पद्यते। अयं समशङ्कः कोटिः । अत्राग्राशङ्कृतलयोदिंगन्यत्वं तुल्यत्वं च संभवतीत्यग्रा क्षितिजे भुजः । अत्र या हृतिः सा तद्धृतिसंज्ञा गता कर्णः । पूर्वसूत्रे क्रान्तिज्या भुजः । समशङ्कः कर्णः । पूर्वसूत्रादुपरि तद्हतिखण्डं कुज्योना तद्धृतिः कोटिः। उन्मण्डलशङ्कुनोनः समशङ्कः कोटिः । कुज्योनतद्धृतिः कर्णः । अग्रादि- खण्डं भुजः । अग्राग्रखण्डोनाग्राम / दिखण्डं भवति । द्वयोः क्षेत्रयोरन्तरा क्षेत्रमुत्पादितं पूर्वसूत्रादुपरीति स्पष्टम् । यन्त्रोपलब्धानि क्रान्तिज्याग्रादीनि त्रिज्या ३४३८ गुणानि यन्त्रस्थत्रिज्या- भक्तानि सिद्धान्तोक्तानि भवन्ति । अक्षपत्रे मेषवृत्तयाग्योत्तरसूत्रसम्पाते यावन्त उन्नतांशास्तेषां ज्या लम्बज्या कोटि: । तत्र ये नतांशास्तेषां ज्या लम्बज्या भुजः । त्रिज्या कर्णः । मेरुचिह्नापूर्व-