पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः ४५५ रेखायां पश्चिमरेखायां वा पलज्या देया तद चिह्नं कार्यम् । खस्वस्तिकात् तच् चिह्नं प्रतिनीयमानं सूत्रं त्रिज्यैव । याम्यसूत्रे मेरुखमध्ययोरन्तरं लम्बज्या | यद्वा यन्त्रपृष्ठभागे पूर्वरेखातः पश्चिमरेखात ऊर्ध्वमेकाद्यन्नतांशा नवतिपर्यन्तमङ्किता: सन्ति । तत्र पलांशतुल्योन्न- तांशेषु भुजाग्रं देयम् । अत्र मेरुचिह्लाद्भुजाग्रमेव त्रिज्याकर्ण: । अंशवृत्तपूर्वसूत्रसम्पातादुपरि येषु भुजाग्रं लापितं तेष्वेवांशेषु पश्चिमसूत्रांशवृत्तसम्पातादग्रे चिह्नं कार्यम् । तच्चिह्न- भुजाग्रचिह्नद्वयसूत्रार्द्ध लम्बज्या कोटि: । तत्सूत्रयाम्यसूत्रसम्पातान्मेरुकीलपर्यन्तं याम्यसूत्रं पलज्या भुजः । लम्बज्या द्वादशांशेन पलज्यापवर्तिता पलभा भवति । त्रिज्यायामपवत्तितायामक्षकर्णो भवति । लम्बज्यातो द्वादश लभ्यन्ते । एवमक्षक्षेत्राणि यन्त्रराजे वेद्यानि । अत्रेष्टोन्नतांशवलयमस्यादिसम्पादित- द्यज्यावृत्तयोगात्तथा लम्बः क्षितिजे पातनीयो यथाग्राग्राद्याम्यं शङ्कृतलं स्यात् । तथा स सम्पातो धार्यो यथा लम्बसूत्रमग्राग्रतः शङ्कायतेदिति भावः । उन्नतांशानां ज्या शङ्कर्नतांशानां ज्या हग्ज्येति । इष्टद्युरात्रवृत्तयाम्योत्तरसूत्रसम्पाते यावदधमुन्नतवलयमस्तिं तदुन्नतांशज्या दिनार्द्धशङ्कः । सम्पातादस्मात् क्षितिज रात्र- वृत्तसम्पातावधि द्युरात्रवृत्ते दिनार्द्धहृतिः । इयं त्रिज्यापरिणता दिनार्द्धान्त्या भवति । एवमिष्टहृत्यन्त्ये च वेद्ये । कुज्याग्रादुपरिखण्डमिष्टहृतेः कला चरज्याग्रादुपरि खण्डं सूत्रं भवति । उन्मण्डलशङ्क्वग्रादुपरि खण्डमिष्टशङ्कोरिष्टयष्टिः । उन्नतकाल : सौम्ययाम्यगोलयोश्च- रोनयुतस्तस्य ज्या सूत्रम् | नतकालोत्क्रमज्या शरः स तु दिनार्द्धान्त्यिाया इष्टान्त्या- ग्रादुपरिखण्डं भवति । इष्टहृत्यग्रादुपरिखण्डं दिनार्धंहृतेः फलमिति | दिनार्द्धशङ्को- रिष्टशङ्क्वग्रादुपरिखण्डमूर्ध्वसंज्ञा | मेषवृत्तपूर्वापर संपाताच्छङ्कुमूलावधि भुजो ज्ञेयः । भुज: समवृत्तखेटविवरांशज्या । अयं भुजस्त्रिज्याहतो दृग्ज्याभक्तो दिग्ज्या स्यात् । तद्धनुदिगंशाः भवन्ति । यन्त्रे कोणवृत्ते कार्ये । कोणवृत्तेष्टद्यु रात्रवृत्तसम्पाते यदाऽर्कस्तदा विदिच्छाया स्यात् । घटिकानयनं समवृत्तार्कवत् । एवमक्षपत्रवदन्यपि पत्रं कार्यम् । तङ्कितं चक्रांशाङ्कितं च कार्यम् । पूर्वंचिह्नादुभयतः प्रत्यंशचिह्नद्वयगसूत्राणि नवत्यंशपर्यन्तं नवतिसम्पूर्णजीवाः भवन्ति । तत्र याम्योत्तररेखाद्धं त्रिज्या । तदक्षपत्रवत्कृतपत्र केन्द्रान्मन्दान्त्य फलज्याभिः सप्तभिः शीघ्रान्त्यफलज्याभिः पञ्चभि: वृत्तानि कार्याणि तानि भगणांशेरक्यानि | स्वस्वमन्दशीघ्रपरिधो पूर्वंचिह्नान्मन्दकेन्द्रशीघ्र केन्द्रभुजमुभयतो दत्त्वा तदग्रद्वयगत- सूत्राणि मन्दशीघ्रदोः फलानि भवन्ति । शीघ्रदोः फलाद्याम्योत्तर रेखां प्रति नीयमानं तुल्यान्तरसूत्रं शीघ्रकोटिफलं स्यात् । 'त्रिज्याकोटिफलेन युक्ता होनेत्यादिना शीघ्रकर्ण: साध्यः । स्वस्वशीघ्रदोः फलानि पूर्वकृतमहद्वृत्तव्यासार्द्धरूपत्रिज्या ३४३८ गुणानि स्वस्वकर्णभक्तानि कार्याणि ।