पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः उन्नतवलयानामपि षट्चिह्नानि भवन्ति । स्वीयस्वोयवृत्तचिह्नषट्कलग्नानि - यानि वृत्तनि तानि क्षितिजाधुन्नतवलयानि सम्पद्यन्ते । क्रियमाणवृत्तानां यन्त्रकेन्द्रात् केन्द्राणि यावद्भिरन्तरैर्भवति तन्मितानि केन्द्राणि तेषां क्षितिजाद्युन्नतवलयानां भवन्ति । तेषां वृत्तानां यानि व्यासार्द्धानि ते व्यासा इत्युच्यन्ते । तत्राऽक्षांशेभ्यो न्यूनोन्नतांशानां व्यासेभ्योऽधिकानि केन्द्राणि भवन्ति । उन्नतवलयानां सान्तरं अक्षांशोन्नतांशान्तरद्युज्यातुल्यं प्रत्यक्षं दृश्यते । लम्बांशनतांशयोगद्युज्यातुल्यः केन्द्रव्यासयोगो भवति । 'योगोन्तरेणोनयुतोऽद्धित' इति 'केन्द्रव्याससाधनम् अक्षे च शेषे च षडुन्नतांशानिति' यदुक्तं सत्सर्वं शोभनम् ॥ यद्वा मकरमेषकर्कवृत्तानि पूर्ववविरचय्य दिगङ्कितानि कृत्वा मेषवृत्तं चक्रां- शाङ्कुरङ्कयेत् । ततो मेषवृत्तं पूर्वसूत्रसम्पातान्मेषवृत्त [ 'परिधावुपरिभागेऽक्षांशतुल्ये- ऽन्तरे चिह्नं कार्यम् । यन्त्रे दक्षिणरेखा मकरवृत्तादूर्ध्वमपि फलकादौ दीर्घा कार्या । ततो मेषवृत्त ] ४५३ पूर्वसूत्रसम्पातादक्षांशकृतचिह्नलग्नसूत्रं दीर्घं याम्यरेखां नयेत् । तद्यत्र याम्य- रेखायां लगति तत्र क्षितिजस्य व्यासान्तगचिह्नं ज्ञेयम् । एवं पश्चिमसूत्रमेववृत्त- सम्पातादधः प्रदेशे मेषवृत्ते पलांशतुल्येऽन्तरे चिह्नं कार्यम् | मेषवृत्तपूर्वसूत्रसम्पाता- देतच्चिह्न प्रति सूत्रं नयेत्तद्यत्र याम्योत्तरसूत्रे लगति, तत्र क्षितिजस्य द्वितीयं व्यासा- न्तगचिह्नं स्यात् । ततो व्यासान्तगचिह्नद्वयान्तरार्द्धकेन्द्राद्व्यासान्तगचिह्नद्वयान्तरार्द्ध- मितकर्कटेन यद्वृत्तं तत् क्षितिजं भवति । एवं मेषवृत्तपूर्वसम्पातादुपरि पलांशकृत-. चिह्नतोऽप्युपरि षडंशान्मेषवृत्तेऽयेत् । ततो मेषवृत्तपूर्वसूत्रसम्पातात् षडंशचिह्नलग्नं सूत्रं याम्यरेखायां लग्नं दूरं नयेत् । तद्याम्यसूत्रसम्पाते षडुन्नतांशवलयव्यासान्तगचिह्नं भवति । एवं मेषवृत्तपश्चिमसूत्रसम्पातादधःकृताक्षांशचिह्नादुपरि प्रदेशे षडंशेषु चिह्नं कार्यम् । मेषपूर्वसूत्रसम्पातादेतत् कृर्ताचह्नोपरि सूत्ररूपा रेखा कार्या । सा यत्र याम्यो- त्तररेखायां लगति तत्र द्वितीयं व्यासान्तगचिह्नम् । ततो व्यासान्तगचिह्नद्वयान्तरार्द्ध- केन्द्रात् क्षितिजवदुन्नतवलयोत्पादनम् । एवं सर्वाण्यप्युन्नतवलयानि । मेरुं यन्त्रकेन्द्रं प्रकल्प्य यद्यन्त्रं क्रियते तत्सौम्ययन्त्रमित्युच्यते । अत्र यत् क्षितिजं तन्मकरघुरात्रवृत्तक्षितिजसम्पातद्वयाधः क्षितिजवृत्तशकलमेव भवति । वडवं ? यन्त्रकेन्द्रं प्रकल्प्य यन्त्रं क्रियते तद्याम्ययन्त्रमित्युच्यते । अत्र यत् क्षितिजं तत् कर्का- दिद्युरात्रवृत्तक्षितिजसंपातद्वयाधः क्षितिजवृत्तखण्डं भवति । याम्ययन्त्रे क्रान्तिवृत्तस्य केन्द्रं याम्यकदम्ब एव स्वीक्रियते । मिश्रत्वान्मिश्रयन्त्र मित्युच्यते । यन्त्रत्रयेणापि कालादिसाधने फलं तुल्यं यथा समायाति तथा यन्त्राणि सौम्ययाम्यमिश्रभेदेन बुधै- विरचितानि । १. अयमंश: खपुस्तके नास्ति । २. सर्वान्यशुत्रत इति ख पु० । ... ३. यत्रेति ख पु० ।