पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये वश्यकत्वात्केन्द्रव्यासान्तराभावः । तस्मादक्षज्यावशेन क्षितिज केन्द्रं व्यासान्तरं साध्यम् । यद्यक्षज्यातुल्येन भुजेन लम्बज्यात्रिज्ये कोटिकर्णौ तदा मेषप्रमाणतुल्येन भुजेन किमिति क्षितिजकेन्द्रव्यासौ भवतः । मेषप्रमाणवृत्तपूर्वापरसूत्रसम्पात एव मेषादेरुदयस्थान - सद्भावाक्षितिजसम्पातोऽप्यत्रावश्यकः । ४५२ नहि क्षितिजमन्तरेणोदय: संभवति । यन्त्रकेन्द्राद्याम्यसूत्रे क्षितिजकेन्द्रप्रमाणं कोटिः। मेषप्रमाणं भुजः | क्षितिजकेन्द्राग्रस्य क्षितिजवृत्तपूर्वापरसूत्रसम्पातस्यान्तरे तिर्यक्कर्ण इति क्षेत्रम् । एवं यदायाति क्षितिजकेन्द्रं तद्याम्यरेखायां देयं तदग्रात् क्षितिजव्यासेन यन्त्रे यद्वृत्तशकलं तत् क्षितिजं भवति । यन्त्र केन्द्रात् सौम्यसूत्रक्षितिजसम्पातं याव- दक्षांशोत्थद्युज्यैव। लम्बज्योनत्रिज्याया अक्षांशोत्क्रमज्यारूपाया मेषप्रमाणगुणन- प्राप्तावक्षक्रमज्या भक्तत्वात् । मेषप्रमाणगुणलम्बज्याक्षज्याभक्ता क्षितिजकेन्द्रम् । मेषप्रमाणगुणात् त्रिज्याक्षज्याभक्ता क्षितिजव्यासो भवति । केन्द्रव्यासान्तरं कार्यम् । तत्र लम्बज्यात्रिज्ययोरन्त मेषप्रमाणगुणमक्षज्याभक्तं जातमक्षद्युज्यातुल्यम् । केन्द्रव्यासयोगस्तु मेषप्रमाणगुणोऽक्षक्रमज्याभक्तो लम्बज्यात्रिज्यायोग एव भवति अयमेव पलांशोनराशिषट्कज्या तुल्यो भवति । 'योगोन्तरेणोनयुतोऽऽर्द्धत इति महेन्द्रसूरिणा 'पलैविहीना गगनाष्टरूपाः' इत्याद्युक्तम् । तात् अत्र यद्देशीयमक्षपत्रं कर्तुमिष्टं तद्देशीयाक्षांशवशेन मकरादिस्थार्कदिन दलमे- काद्युन्नतांशजनितनतघट्यात्मककालं च सिद्धान्तोक्तया साधयेत् । अक्षपत्रस्थमकरवृत्त- याम्यसूत्रसम्पाते प्रथमं मकरास्यं निवेश्य कालवृत्तयाम्यसूत्रसम्पाते चिह्नं कार्यम् । ततो दिनाद्धंतुल्यनतघटिकासु कालवृत्तयाम्यसूत्रसम्पातात् पूर्वतः पश्चिमतश्चिह्न कार्ये । एवमेकाद्युन्नतांशजनितनतघटीनां चिह्नानि कालवृत्तस्थमकरवृत्तयाम्यसूत्रसम्पा- पश्चिमतश्च कालवृत्ते चिह्न कार्ये । कालवृत्तस्थचिह्नोपरि मकरास्ये कृते अक्षपत्रे यानि मकरायचह्नानि तानि तत्र क्षितिजाद्युन्नतवलयचिह्नानि भवन्ति । एवं मेषादिस्थितार्कस्य दिनार्द्धं पञ्चदशघटिकात्मकं तत्सिद्धमेवास्ति । एकाद्युन्नतांशवशेन मेषादिस्थितार्कस्य नतघटिका: साध्याः | याम्यसूत्रे मेषादौ लापिते यत्र मकरास्यं कालवृत्ते लगति तत्स्थानादिनार्द्ध तुल्यनतघटिकाङ्के मकरास्ये निवेशिते यत्र क्रान्तिवृत्तमेषादि पूर्वत: पश्चिमतश्च मेषवृत्ते लगति तत्र मेषवृत्ते क्षितिजचिह्नम् । इष्टोन्नतांशजनितनतघटिकाङ्के मकरास्ये निवेशिते मेषवृत्ते यत्र मेषादिलंगति तत्र तत्रोन्नतवलयचिह्नानि भवन्ति । एवं कर्कादिस्थितार्कस्य दिनदलमेकाद्युन्नतांशवशेन नतघटिकाश्च साध्याः । याम्यसूत्रे कर्कादौ लापिते यत्र मकरास्यं कालवृत्ते लगति तत्स्थानात्पूर्वतः पश्चिमतश्च कर्कादिस्थितार्कस्य दिनदलघटिका एकाद्युन्नतांशजनितनतघटिकाश्च कालवृत्ते दत्त्वा मकरास्ये निवेशिते क्रान्ति वृत्तकर्कादि यत्र कर्कवृत्ते लगति तत्र क्षितिजद्युन्नतवलया- चिह्नानि भवन्ति । एवं क्षितिजस्य कर्कवृत्ते चिह्नद्वयं मेषवृत्ते चिह्नद्वयं मकरवृत्ते चिह्नद्वयमिति षट्चिह्नानि भवन्ति ।